________________
आदिभाग:
पदार्थदीपिका - प्रशस्ति
अन्तभाग :
तस्याऽभवत् श्रुतनिधिर्जिन चंद्रनामा शिष्योऽनु तस्य कृति-भास्कर नंदिनाम्ना ! शिष्येण संस्तवमिम निजभावनार्थ ध्यानानुगं विरचितं सुविदो विदंतु ॥१०० इति ध्यानस्तवः समाप्तः ।
५१. पदार्थदीपिका ( भ० देवेन्द्रकीतिं )
श्रीसर्वज्ञं जिनं नन्वा सर्वसत्वहितावह । पदार्थदीपिका सारा टीका कुर्वे सुकोमला || १ ||
अन्तभाग :
७३
वस्वष्टयुक्तम तेन्दुयुते (१७८८) वर्षे मनोहरे । शुक्ले भाद्रपदे मासे चतुर्दश्या शुभे तिथी || १ || ईसर देति सद्ग्रामे टीका पूणितामिता । भट्टारक- जगत्कीर्तेः पट्टे देवेन्द्र कीर्तिना ||२|| दुष्कर्महानये शिष्य मनोहर -गिरा कृता । टीका समय सारस्य सुगमा तत्त्वबोधिनी ||३|| बुद्धिमद्भिः बुधैर्हास्यं कर्तव्यं न विवेकिभिः । शोधनीयं प्रयत्नेन नयतो विस्तरता व्रजेत् ||४| बुधैः संपाठयमानं च वाच्यमानं श्रुतं सदा । शास्त्रमेतच्छुभंकारि चिरं संतिष्ठता भुवि ||५|| पूज्य देवेन्द्र कीर्ते शं (तीश - ) शिष्येण स्वां तहारिणा । नाम्नेयं लिखिता टोका स्वहस्तेन स्वबुद्धये ||६|| [ इति समयसारस्य पदार्थदीपिका टीका समाप्ता । ]