________________
जैनग्रन्थ-प्रशस्तिसग्रह
यद्भारत्याः कविः सर्वोऽभवत्सज्ज्ञान-पारगः । तं कविनायकं स्तौमि समन्तभद्र-योगिनम् ॥१६॥ नाभेयस्य पुराणाब्धिः कृतो येन सुबुद्धिदः । स्वसिद्धय शिरमा वन्दे जिनसेनकवीश्वरं ।।१७।। सर्वेषा तीर्थकर्तृणा चरिताब्धिः प्रकाशितः । येन तं गुणाभद्राचार्यकवि नौमि संततम् ॥१८॥ चन्द्रप्रभजिनेशस्य चरितं येन वर्णित । तं वोरनन्दिनं वन्दे कवीशं ज्ञानलब्धये ॥१६॥ येऽन्येऽपि कवयोऽभूवन जिनगुण-प्रकाशका. ।
कवित्वसिद्धये सन्तु मर्वे ते मम संस्तुताः ॥२०॥ अन्तभाग:भव्याबुजौघदिनकृद्गणभृत्समानो निश्शेषमुन्यधिपतिः शुभमडलेशः। राजाधिराज-गणसेवित-पादपद्मः ख्यातो बभूव मुवचा भुवि नेमिचन्द्रः॥६८ सुगुण-गण समुद्रो विष्टपे रख्यातकीर्तिर्मुनिनरपतिवृन्दैः पूजिनानिः सुम्पी । विजितसकलवादी तस्य पट्टे बभूव महिमितजिनधर्मा श्रीयश-कीर्तिनामा ।।
योगीशभूभृद्गगालब्धपूजः कवीशसेव्यः भुवनप्रसिद्धः । पट्टे तदोये जितकाममायः श्रीभानुकीर्निदृढशान्तमूर्तिः ॥७॥ मिद्धान्तादि-पुगणकाशजलधिः प्रध्वस्त मिथ्यातमः भन्यामाज-रविः समस्तगुणभृद्ध ब्धिचन्द्रोपमः । विख्यातो भुवने तपोभरधृतो गच्छाधिराजः शमी शिष्यस्तस्य सुयोगिसस्तुतपट: श्रीभूषणो राजते ॥७॥ भव्याभोजाऽर्कभानुर्मनिनृपतिगणैः सेवितानिः प्रसिद्धस्तर्कालंकारशास्त्रप्रवचन-पटुधीर्वस्त-मिथ्यारवादः । उद्यद्भानुप्रतापो गुणगणनिलयो जैनधर्मप्रकाशी तत्पद्देशस्तपस्वी प्रकटमुमहिमा धर्मचन्द्रो विभाति ।।७२।।