________________
पाण्डवपुराण - प्रशस्ति
कलंकोऽक्लंकः स कलौ कलयतु श्रुतं । 'पादेन ताडिता येन मायादेवी घटस्थिता ||१७// जिनसेना यतिजया जिनसेन कृतं वरं । 'पुराणपुरुषाख्यार्थ पुराणं येन धीमता ॥ १८ ॥ गुणभद्रभदन्तोऽत्र भगवान् भातु भूतले 1 पुराणादौ प्रकाशार्थं येन सूर्यायितं लघु ॥ १६ ॥ तत्पुराणार्थमालोक्य धृत्वा सारस्वतं श्रुतम् । मानसे पाण्डवाना हि पुराणं भारतं ब्रुवे ॥ २० ॥
X
X
X
x
वीरो विश्वगुणाश्रितो गुणगणा वीरं श्रिता सिद्धये । वीरेव विधीयते व्रतचयो वीराय स्वस्त्यस्तु च ॥ वीराद्वर्तत एव धर्मनिचयो वीरम्य सिद्धिर्वरा ।
वीरे याति जगत्त्रयं जितमदं संजायते निश्चितं ।। १५४ ||
इति श्री पाण्डवपुराणे महाभारतनाम्नि भट्टारकश्रीशुभचन्द्रप्रणीते ब्रह्मश्रीपाल - साहाय्यसापेक्षे श्रोणकस्य जिनवन्दनोत्साहवर्णनं नाम प्रथमं
पर्व ॥ १ ॥ अन्तभाग:
श्रीमूल संघेऽजनि पद्मनन्दी तत्पट्टधारी सकलादिकीर्तिः । कीतिः कृता येन च मर्त्यलोके शास्त्रार्थकर्त्री सकला पवित्रा ॥१६७॥ भुवन कीर्तिरभूद्भुवनाधिपैर्भुवनभासनचारुमतिः स्तुतः । वरतपश्वरणोद्यतमानमो भवभयाहिखगे चिनिवत् क्षमी ॥१६८॥ चिद्रूपवेत्ता चतुरश्चिरन्तनश्चिद्भूषणश्चचितपादपद्मकः 1 सूरिश्वन्द्रादिचयेश्चिनोतु वै चारित्रशुद्धि खलु नः प्रसिद्धिटा || १६६॥ विजयकीर्तियतिर्मुदितात्मको जितता ( १ ) ऽन्यमतः सुगतैः स्तुतः ।
तु जैनमतः सुमतो मतो नृपतिभिर्भवतो भवतो विभुः ॥ १७० ॥ तस्य गुणाम्बुधिरो धीमान् गरीमान् वर'