________________
२६
जैनग्रन्थ- प्रशस्तिसंग्रह
तस्मादभिन्नरूपस्य वृषभस्य जिनेशतुः । तस्य पदाभोज-भूषिताऽखिलभूतल ||२|| भूपीठ भ्रातभूताना भूयष्ठानंददायिनी । भजे भवापहा भाषां भवभ्रमणभंजिनी ||३|| पा ग्रन्थस्य संदर्भों प्रस्फुरीति विदा हृदि । वंदे तान् गुरून् भूयो भक्तिभारनमच्छिरः || ४ || नायते सूत्रधारः - श्रादिष्टोस्मि ।
ब्रह्मश्रीकमलसागर - ब्रह्मश्री कीर्तिसागराभ्या सकलागमामवारिधिचंद्रावताराणा सरस्वतीगच्छचं गारहाराणा श्रीमन्मूलसंघोदयाद्रिप्रकटनप्रभाकराणा चंचच्छिखि-शिखडशोभितकर कमलाना त्रिविद्यविद्या चक्रवर्तिना दिगम्बरशिरोमणीना श्रीमत्प्रभाचन्द्रसूरीश्वराणा शिष्यैरस्मद् गुरुभिश्च । श्रीमद्वादिचन्द्रसूरिभिर्निर्माय ज्ञानसूर्योदयं नामनाटक प्रदत्तमासीत् तत्सभ्याना पुरतोऽभिनेतन्यं अस्ति चाधुना सर्वेषा कुतूहललालसं चेतः । इति प्रस्तावः ।
अन्तभाग:
मूलसघे समासाद्य ज्ञानभूषं बुधोत्तमाः । दुस्तरं हि भवाधि तरि मन्यते हृदि || १ || तत्पट्टामलभूषण समभवद्द गम्बये मते चंचकरः स भाति चतुरः श्रीमत्प्रभाचन्द्रमाः । तत्पऽजनि वादिवृन्दतिलकः श्रीवादिचन्द्रो यतिस्तेनायं व्यरचि प्रबोधतरणिर्भव्याब्जसंबोधनः ||२|| वसुवेदरसाब्जाके (१६४८) वर्षे माघे सिताष्टमी - दिवसे । श्रीमन्मधूकनगरे सिद्धोऽयं बोधसंरंभः ॥३॥ १८३॥
इति सूरि श्रीवादिचन्द्रं विरचिते ज्ञानसूर्योदय नाटके चतुर्थोऽध्यायः ॥ ४ ॥ संपूर्णोयं ग्रन्थः । स्वस्ति ।