________________
१४
जैनग्रन्थ- प्रशस्ति संग्रह
aaraama - ग्राम-प्रबोधन - दिवामरिं । कुंदकुंदाभिधं नौमि मुनीन्द्रं महिमास्पद ||२१|| जिनोक्त सप्ततत्त्वार्थ सूत्रकर्ता कवीश्वरः । उमास्वातिमुनिनिंत्य कुर्यान्मे ज्ञानसंपदा ||२२|| स्वामी समन्तभद्राख्यां मिथ्यातिमिरभास्करः । भव्यपद्मस्कर्ता जीयान्मे (द्यो ) भावितीर्थकृत ॥ २३॥ विप्रशाऽग्रणीः सूरिः पवित्रः पात्रकेशरी । संजीयाज्जिनपादाब्जसे वनैकमधुव्रतः ||२४|| rer afterfer बौद्धौघाः कौशिका यथा । भास्करस्योदये सस्यादकलङ्कः श्रिये कविः ||२५|| श्रीजिनेन्द्र-मताभोधि-वर्द्धने व विधूत्तमं । जिनसेन जगद्वंद्य मस्तुवे मुनिनायक ||२६|| मूलसाग्रणीर्नित्यं रत्नकीर्तिगुरुर्महान् । रत्नत्रय - पवित्रात्मा पायान्मा चरणाश्रित ||२७|| कुवादिमत्तमातंग-विमदीकरण हरिः । गुणभद्रो गुरुर्जीयात्कवित्वकरणे प्रभुः ||२८|| भट्टारको जगतपूज्यः प्रभाचन्द्रो गुणाकरः । बंद्यते स मया नित्यं भव्यराजीव भास्करः ॥ २६ ॥ जीवाजीवादितत्त्वाना समुद्यतदिवाकर । वंदे देवेन्द्रकीर्ति च सूविर्य दयानिधि ||३०|| मद्गुरुविशेषेण दीक्षा लक्ष्मीप्रसादकृत् । तमहं भक्तितो वंदे विद्यानन्दी सुसेवकः ||३१|| सूरिराशाघरो जीवात् सम्यग्दृष्टिशिरोमणिः । श्रीजिनेन्द्रोक्त सद्धर्म- पद्माकर-दिवामणिः ||३२|| इत्यात भारती- साधु-संस्तुति शर्मदाविनीं । मंगलाय विधायोच्चैः सच्चरित्रं सता ब्रुवे ॥ ३३ ॥