________________
१०
जैनग्रन्थ-प्रशस्तिसग्रह
पष्ठाष्टमादेस्तपसो विधाता, क्षमाभिधः श्रीनिलय धरित्र्याम् । जीयाजितानेकपरीपहारिः, सबोधयन् भव्यगण चिरं सः ॥२७॥ भ्रातास्ति तस्य प्रथितः पृथिव्या, मद्ब्रह्मचारी जिनदासनामा । तनेति तेने चरितं पवित्र, जब्यादिनाम्नो मुनिसत्तमस्य ॥२८॥ दशे विदेशे सततं विहार, वितन्वता येन कृताः सुलोकाः । विशुद्धसर्वज्ञ मत-प्रवीणाः, परोपकारवततत्परेण ||२६|| स ब्रह्मचारी किल धर्मदासस्तस्यास्तिशिष्यः कविबद्धमख्यः । सोजन्यवल्लीजलदः कृतोय, तद्योगतो व्याकरणप्रवीणः ॥३०॥ कविर्महादेव इति प्रसिद्धस्तन्मित्रमास्ते द्विजवशरत्नम् । महीतले नूनमसौकृत(ति)श्च साहाय्यतस्तस्य मुधमहेतोः ॥३१॥ ग्रथः कृतोऽयं जिननाथभक्त्या गुणानुगगाच महामुनीनाम् । पूजाभिधानादहिनेन नित्य(नून)महाप्रशस्तः परमार्थबुद्धया ॥३२॥
एकविशतिप्रमाणानि शतानि च चरित्रके ।
त्रिंशद्युक्तानि श्लोकाना शुभाना संति निश्चितम् ।।३७|| इति श्रीजम्बूस्वामिचरित्रे भ० सकलकीर्तिशिप्य-ब्रह्मजिनदाम-विचित विद्युच्चर महामुनि-सर्वार्थसिद्धिगमनो नामैकादशमः सर्गः ॥११॥
८. सुदर्शनचरित्र ( विद्यानंदी मुमुक्षु) आदिभाग:
ज्ञानरत्नाब्धितारेश सर्वविद्याधिपं प्रभु । आदिदेवं नमस्यामि भव्यगजीवभास्कर ॥१॥ चंद्रप्रभोः द्युतिः पायात्मतामंतःप्रकाशिनी। नित्यं करोति चद्रस्य न कृष्णे साततोधिका ॥२॥ कारातिजये शूरं वदे शाति शिवश्रिये । ससारवनदावाग्नौ पतज्जीवेषु तायिनं ॥३॥