________________
PAN
जैनग्रन्थ-प्रशस्तिसंग्रह
(आद्यन्तादिमागमंचयात्मक)
___-0:k:१.न्यायविनिश्चय-विवरणम् (वादिराजसूरिः) आदिभाग:
श्रीमज्ज्ञानमयो दयोन्नतपढव्यक्तो विविक्तं जगत् कुर्वन्मवतनूमदीक्षणसखैर्विश्वं वचोरश्मिभिः । व्यातन्वन्भुवि भव्यलोकनलिनीषंडेष्वखंडश्रियं
श्रेयः शाश्वतमातनोतु भवता देवो जिनोऽहर्पतिः ॥१॥ विस्तीर्ण-दुर्नयमय-प्रबलान्धकार-दुर्बोध-तत्त्वमिह वस्तुहितावबद्धं । व्यक्तीकृतं भवतु नः सुचिरं समंतात् सामंतभद्रवचनस्फुटरत्नदीपैः ।।२।। गूढमर्थमकलंकवाङ्मयागाधभूमिनिहितं तदर्थिनाम् ।। व्यञ्जयत्यमलमनन्तवीर्यवाक् दीपवतिरनिशं पदे पदे ॥३॥ यत्सूक्तसारसलिलस्नपनेन संतश्चेतो मलं सकलमाशु विशोधयन्ति । लंघ्यन्न यत्पदमतीवगभीरमन्यैस्ते मा पुनस्तु(न्तु)मतिसागरतीर्थमुख्याः ॥४ प्रणिपत्य स्थिरभक्त्या गुरून्परान युदारबुद्धिगुणान् । न्यायविनिश्चय-विवरणमभिरमणीयं मया क्रियते ॥५॥