________________
७७-७९]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२०७
इत्युक्तं त्रिविधमपि सत्यकम् । इदानीं नवविधमसत्येयकं नवविधमेव चानन्तकं निरुखपयिषुर्गाथायुगमाह
रूवजुयं तु परित्तासंखं लहु अस्स रासि अभासे । जुत्तासंखिजं लहू, आवलियासमयपरिमाणं ॥ ७८ ॥
पूर्वोक्तमेवोत्कृष्टं येयकं 'रूपयुतं तु' रूपेण एकेन सर्षपेण पुनर्युक्तं सत् 'लघु' जघन्यं 'परी'तास' परीत्तासेयकं भवति । इदमत्र हृदयम् - इह येनैकेन सर्पपरूपेण रहितोऽनन्तरोद्दिष्टो राशिरुत्कृष्टसङ्ख्यातमुक्तं तत्र राशौ तस्यैव रूपस्य निक्षेपो यदा क्रियते तदा तदेवोत्कृष्टं सख्यातकं जघन्यं परीत्तासयातकं भवतीति । इह च जघन्यपरीत्तासङ्ख्येयकेऽभिहिते यद्यपि तस्यैव मध्यमोत्कृष्टभेदप्ररूपणावसरस्तथापि परीत्तयुक्तनिजपद भेदतस्त्रिभेदानामप्यसङ्ख्ये यकानां मध्यमो - कृष्टभेद पश्चादल्पवक्तव्यत्वात् प्ररूपयिष्येते, अतोऽधुना जघन्ययुक्तासख्यानकं तावदाह-"अम्स रासि अवभासे" इत्यादि अस्य राशेः - जधन्यपरीत्तासह्येयकगतराशेः 'अभ्यासे परस्परगुने सति 'लघु' जघन्यं युक्तासयेयकं भवति । तच्च 'आवलिकासमयपरिमाणम्' आवलिका"असंखिजाणं समयाणं समुदयसमिइसमागमेणं" ( अनुयो० पत्र १७८-२ ) इत्यादिसिद्धान्तप्रसिद्धा तम्याः समया:- निर्विभागाः कालविभागास्तत्परिमाणमावलिकासमयपरिमाणम्, जघन्ययुक्तासत्येयकतुल्य समय राशिप्रमाणा आवलिका इत्यर्थः । एतदुक्तं भवति - जघन्यपरीता सङ्ख्येयकसम्बन्धी यावन्ति सर्वपलक्षणानि रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य तत एकैकस्मिन् रूपे जघन्यपरीत्तासल्यातकप्रमाणो राशिर्व्यवस्थाप्यते, तेषां च राशीनां परस्परमभ्यासो विधीयते । इहैवं भावना---असत्कल्पनया किल जघन्यपरीत्तासङ्ख्येयकराशिस्थाने पञ्च रूपाणि कल्प्यन्ते, तानि वित्रियन्ते- - जाताः पञ्चैककाः १११११, एककानामधः प्रत्येकं पश्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते । तद्यथा-33333 | अत्र पञ्चभिः पञ्च गुणिता जाता पञ्चविंशतिः, साऽपि पञ्चभिराहता जातं पञ्चविंशं शतम् इत्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि ३१३५ । एष कल्पनया तावदेतावन्मात्रो राशिर्भवति, सद्भावतस्वसङ्ख्येरूपो जघन्ययुक्तासङ्ख्यातकतया मन्तव्य इति ॥ ७८ ॥
निरूपितं जघन्ययुक्तासत्येयकम् । सम्प्रति शेषजघन्यासङ्ख्याता सङ्ख्यातकभेदस्य जघन्यपरीत्तानन्तकादिस्वरूपाणां त्रयाणां जघन्यानन्तकभेदानां च स्वरूपमतिदेशतः प्रतिपिपादयिषुराहवितिचउपंचमगुणणे, कमा सगासंख पढमचउसत्त ।
ता ते रूवजुया, मज्झा रूवूण गुरु पच्छा ॥ ७९ ॥
इह ‘“संखिज्जेगमसंखं” ( गा० ७१ ) इत्यादिगा थोपन्यस्तोत्कृष्टसङ्ख्यातकादिमौल सप्तपदापेक्षया सङ्ख्यातकाद्यभेदविकलानि यानि परीत्तासङ्ख्यातकादीनि पट् पदानि तानि परीत्तासङ्ख्यातकानन्तानन्तक भेदद्वयविकलानि द्वित्रिचतुः पञ्चसङ्ख्यात्वेन प्रोक्तानि । ततः 'द्वित्रिचतुःपञ्चम
१ असङ्ख्येयानां समयानां समुदयसमितिसमागमेन ॥ २ मौलसप्तपदानि त्वेतानि -- उत्कृष्ट सङ्ख्यातकम् १ परीत्ता सख्यातकम् २ युक्तासङ्ख्यातकम् ३ असङ्ख्याता सङ्ख्यातकम् ४ परीत्तानन्तकम् ५ युक्तानन्तकम् ६ अनन्तानन्तकम् ७ ॥