________________
७७] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२०५ प्रथमम्-आद्यं यत् त्रिपल्य-पल्यत्रयमनवस्थितशलाकाप्रतिशलाकात्यं तेनोद्धृताः-एकैकसपप्रक्षेपेण व्याप्ताः प्रथमत्रिपल्योद्धृताः, क एते ? इत्याह-द्वीपोदधयो न केवलं द्वीपोदधयः पल्यचतुष्कसर्षपाश्च, किं भवति ? इत्याह --- 'सर्वोऽपि' समस्तोऽपि 'एषः' अनन्तरोक्तः सर्षपव्यातद्वीपसमुद्रपल्यचतुष्कगतसर्पपलक्षणः 'राशिः' सङ्घातः 'रूपोनः' एकेन सर्षपरूपेण रहितः सन् 'परमसङ्ख्येयम्' उत्कृष्ट सङ्ख्यातकं भवतीति । तदेवं तावदिदमुत्कृष्टं सङ्ख्येयकम् । जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तानि सर्वाणि मध्यमं सङ्ख्येयकमिति सामर्थ्यादुक्तं भवति । सिद्धान्ते च यत्र कचित् सङ्ख्यातग्रहणं करोति तत्र सर्वत्रापि मध्यम सङ्ख्येयकं द्रष्टव्यम् । यदुक्तमनुयोगद्वारचूर्णी
सिद्धते य जत्थ जत्थ संखिजगगहणं कतं तत्थ तत्थ सर्व अजहन्नमणुकोसयं दद्ववं (पत्र ८१) इति । ___ इदं चोत्कृष्टं सङ्ख्येयकमित्थमेव प्ररूपयितुं शक्यते, द्विकादिदशशतसहस्रलक्षकोठ्यादिशीर्षप्रहेलिकान्तराशिभ्योऽतिबहुना समतिकान्तत्वेन प्रकारान्तरेणारख्यातुमशक्यत्वात् । यदाहुः प्रसिद्धसिद्धान्तसन्दोह विवरणप्रकरणकरणप्रमाण(अन्थ ग्रथनावाप्तसुधांशुधामधवलयशःप्रसरधवलितसकलवमुन्धरावलयाः श्रीहरिभद्रमूरिपादा अनुयोगद्वारटीकायाम् -
जंबुद्दीवप्पमाणमेत्ता चत्तारि पल्ला-पढमो अणवट्टियपल्लो, बिइओ सलागापल्लो, तईओ पडिसलागापल्लो, चउत्थओ महासलागापल्लो। एए. चउरो वि रयणप्पहपुढवीए पढमं रयणकंडं जोयणसहस्सावगाहं भितृण बिइए वयरकंडे पइट्टिया। इमा ठवणा-JUUUए.टविया । एगो गणणं न उवेइ, दुप्पभिई संख त्ति काउं । तत्थ पढमे अणवट्ठियपल्ले दो सरिसवा पक्खित्ता एयं जहन्नगं संखिजगं । ततो एगुत्तरवुड्डीए तिन्नि चउरो पंच जाच सो पुन्नो अन्नं सरिसवं न पडिच्छइ त्ति ताहे असब्भावट्ठवणं पडुच्च वुच्चति-तं को वि देवो दाणवो वा उक्वित्तुं वामकरयले काउं ते सरिसवे जंबूद्दीवाइए एगं दीवे एगं समुद्दे पक्खिविजा जाब निद्रिया, ताहे सलागापल्ले एगो सरिसवो छूढो । जत्थ निहिओ तेण सह आरिल्लएहिं दीवसमुद्देहिं पुणो अन्नो पल्लो आइज्जइ, सो वि सरिसवाणं भरिओ, तओ परओ एकेकं दीवसमुद्देसु पक्खिवंतेणं निहाविओ, तओ सलागापल्ले बिइया सलागा पक्खित्ता । एवं एएणं अणवट्ठियपल्लकरणकमेण सलायग्गहणं
१ सिद्धान्ते च यत्र यत्र सङ्ख्यातकमहणं कृतं तत्र तत्र सर्वमजघन्यमनुन्कृष्टं द्रष्टव्यम् ॥ २ जम्बूद्वीपप्रमाणमात्राश्चवारः पल्याः-प्रथमोऽनवस्थितपल्यः, द्वितीयः शलाकापल्यः, तृतीयः प्रतिशलाकापल्यः, चतुर्थको महाशलाकापल्यः । एते चत्वारोऽपि रत्नप्रभापृथ्व्याः प्रथमं रत्नकाण्डं योजनसहस्रावगाहं भित्वा द्वितीयस्मिन् वज्रकाण्डे प्रतिष्टिताः । एषा स्थापना Anan। एते स्थापिताः । एको गणनां नोपति, द्विप्रभृति सति कृत्वा । तत्र प्रथमेऽनवस्थितपल्यै द्वौ सर्षपो प्रक्षिप्ती एतजघन्यकं सङ्ख्यातकम् । तत एकोत्तरवृद्ध्या त्रयश्चत्वारः पञ्च यावत् स पूर्णोऽन्यं सर्षपं न प्रतीच्छति इति तदा असद्भावस्थापनां प्रतीत्योच्यते--तं कोऽपि देवो दानवो वोक्षिप्य यामकरतले कृत्वा तान् सर्षपान जम्बूद्वीपादिके एक द्वीपे एक समुद्र प्रक्षिपेद् यावधिष्ठिताः, तदा शलाकापल्य एकः सर्षपो क्षिप्तः । यत्र निष्ठितस्तेन सह आरातीर्थीपसमुद्रः पुनरन्यः पत्यः आदीयते, सोऽपि सर्षपैतः, ततः परत एकैकं द्वीपसमुद्रेषु प्रक्षिपता निष्टापितः, ततः शलाकापल्ये द्वितीया शलाका प्रक्षिप्ता । एवमेतेनानवस्थितपल्यकरणक्रमेण शलाकामहणं कुर्वता शलाकापल्यः शलाकाभि