________________
४५-४६ ]
पीतिनामा: चतुर्थः कर्मन्यः ।
१७९
वा तुला वा विसेसाहिया वा ? गोयमा ! सवत्थोवा जीवा अणाहारगा, आहारगा असलज्ज - गुणा । (प्रज्ञा० पद ३ पत्र १३८ - १ )
ननु च सिद्धेभ्योऽनन्तगुणाः संसारिजीवाः ते च प्राय आहारकाः तत् कथमसमातगुणा अनाहारकेभ्य आहारकाः ! इति, नैष दोषः, यतः प्रतिसमयमेकैकस्य निगोदस्याऽसय भागप्रमाणाविग्रहगत्यापन्ना जीवा लभ्यन्ते, ते चानाहारकाः, तत आहारकजीवानामनाहारकजीवापेक्षयासात गुणत्वमेवेति ॥ ४४ ॥ चिन्तितं गत्यादिमार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वम् । इदानीं गुणस्थानकेषु जीवस्थानानि चिन्तयन्नाह -
सव्वजियठाण मिच्छे, सग सासणि पण अपज्ज सन्निदुगं । सम्मे सन्नी दुविहो, सेसेसुं सन्निपज्जन्तो ॥ ४५ ॥
सर्वाणि जीवस्थानानि - चतुर्दशापि मिथ्यादृष्टिगुणस्थानके भवन्ति, मिथ्यात्वस्य सर्वेषु जीवस्थानकेषु सम्भवात् । तथा "सग" त्ति सप्त जीवस्थानानि सासादने भवन्ति । तद्यथा - 'पञ्चापर्याप्ताः' बादरैकेन्द्रियोऽपर्याप्तः १ द्वीन्द्रियोऽपर्याप्तः २ त्रीन्द्रियोऽपर्याप्तः ३ चतुरिन्द्रियो ऽपर्याप्तः ४ असंज्ञिपञ्चेन्द्रियोऽपर्याप्तः ५ 'संज्ञिद्विकम् ' संज्ञी अपर्याप्तः ६ पर्याप्तः ७ । अपर्याप्तकाश्चेह करणापर्याप्तका द्रष्टव्याः, न तु लब्ध्यपर्याप्तकाः, तेषु मध्ये सास्वादनसम्यक्त्वसहितस्योत्पादाभावात् । "सम्मे सन्नी दुविहो" ति अविरतसम्यग्दृष्टिगुणस्थानके संज्ञी 'द्विविधः' अपर्याप्तपर्याप्तरूप द्रष्टव्यः । इहापर्याप्तकः करणापेक्षया ज्ञेयो न तु लब्ध्यपेक्षया, लब्ध्यपर्याप्तमध्येऽविरतसम्यग्दृष्टेरभावात् । 'शेषेषु' मिश्रदेशविरत्यादिगुणस्थानकेषु संज्ञी पर्याप्त इत्येकमेव जीवस्थानकम्, न शेषाणि तेषां मिश्रभावदेशविरत्यादिप्रतिपत्त्यभावात् । न च पूर्वप्रतिपन्नमिश्रभावोऽ न्येषु जीवस्थानकेषु सङ्क्रामन् लभ्यते, "ने सम्ममिच्छो कुणइ कालं" इति वचनात् ॥ ४५ ॥ तदेवं गुणस्थानकेषु व्याख्यातानि जीवस्थानकानि । सम्प्रति गुणस्थानकेष्वेव योगान् व्याख्या
नयनाह
मिच्छदुग अजइ जोगाहारदुगूणा अपुव्वपणने उ ।
मणबहउरलं सविउब्व मीसि सविउब्वदुग देसे ॥ ४६ ॥ मिथ्यादृष्टिद्विकं-मिथ्यादृष्टिसास्वादनलक्षणं तत्र 'अयते' अविरतसम्यग्दृष्टौ चेत्येवं गुणस्खानत्रये संज्ञी पञ्चेन्द्रियोऽपि लभ्यते, तस्य च यथोक्ता आहारकद्विकेन- आहारक काययोमाहारकमिश्रकाययोगलक्षणेन ऊना:-रहितात्रयोदश योगाः सम्भवन्ति । यत् पुनराहारकद्विकं तत् चतुर्दशपूर्विण एव । यदभ्यधायि
आहारदुगं जायह चउदसपुश्चिस्स (पश्चसं० गा० १२ ) इति ।
न च मिथ्यादृष्टिसासादनायतानां चतुर्दशपूर्वाधिगमसम्भव इति । तथा 'अपूर्वपञ्चके' अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोह लक्षणे नव योगा भवन्ति । तद्यथाचतुर्विधो मनोयोगः ४ चतुर्विधो बाम्योगः ४ औदारिककाययोगः १ इति, न शेषाः, अत्यन्तवियुद्धतया तेषां वैक्रियाहारकद्विकारम्भासम्भवात्, तत्र स्थितानां च स्वभावत एव श्रेष्यारोहाभावात् । १ न सम्यग्मिध्यादृष्टिः कालं करोति ॥ २ भाद्दारकद्विकं जास्ते चतुर्दशपूर्विणः ॥