________________
[माथा
१६८
देवेन्द्रसूरिविरचितखोपाटीकोपेतः तत्वात् । ‘शेषस्थानेषु' सुरगतौ तिर्यम्गतौ मनुष्यगतौ पञ्चेन्द्रियत्रसकाययोगत्र्यवेदत्रयकषायचतुष्टयमतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानसामायिकच्छेदोपस्थापनपरिहारविशुद्धिकदेशविरताविरतचक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनभव्याभव्यक्षायिकक्षायोपशमिकौपशमिकसाखादनमिश्रमिथ्यात्वसंश्याहारकानाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानकेषु षडपि लेश्याः । ___उक्ता मार्गणास्थानेषु लेश्याः । इदानीं मार्गणास्थानेषु खस्थानापेक्षयाऽल्पबहुत्वं निरूपयिषु
राह—'नरनिरय' इत्यादि । इह यथासङ्ख्येन योजना कर्तव्या । सा चैवम्-नरा निरयदेवतिर्यग्योनिकेभ्यः सकाशात् स्तोकाः । यत इह द्विविधा नराः----वान्तपित्तादिजन्मानः सम्मूर्छजाः, स्त्रीगर्भोत्पन्नाः गर्भजाश्च । तत्राद्याः कदाचिद न भवन्त्येव, जघन्यतः समयस्य उत्कृष्टतस्तु चतुर्विशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात् ।। यदाह सन्देहसन्दोहशैलशृङ्गभङ्गदम्भोलिभगवान् जिनभद्रगणिक्षमाश्रमणः
बारस मुहुत्त गन्भे, उक्कोस समुच्छिमेमु चउवीसं ।
उकोस विरहकालो, दोसु वि य जहन्नओ समओ।। (बृ० सं० पत्र १३०-१) उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निलेपत्वसम्भवाद् यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सद्ध्येया भवन्ति नासङ्ख्येयाः, तत्र सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकम् अतो विशेषत इदं प्ररूप्यते---इह षष्ठवर्गः पञ्चमवर्गेण यदा गुणितो भवति तदा गर्भजमनुप्यसङ्ख्या भवति । अथ कोऽयं षष्ठः (ग्रन्थानम्-१५००) वर्ग: ? कश्च पञ्चमः ? इत्येतदुच्यते-- विवक्षितः कश्चिद् राशिस्तनैव राशिना यत्र गुण्यते स तावद् वर्गः । तत्रैकस्य वर्ग एव न भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोस्तु वर्गश्चत्वारो भवन्ति, एष प्रथमो वर्गः ४ । चतुर्णा वर्गः षोडशेति द्वितीयो वर्ग: १६ । षोडशानां वर्गो द्वे शते पट्पञ्चाशदधिक तृतीयो वर्गः २५६ । अस्य राशेर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि पत्रिंशदधिकानि चतुर्थों वर्गः ६५५३६ । अस्य राशेर्वर्गः सार्धगाथया प्रोच्यते
चत्तारि य कोडिसया, अउणतीसं च हुति कोडीओ। अउणावन्नं लक्खा, सत्तहि चेव य सहम्सा ॥
दो य सया छन्नउया, पंचमवग्गो इमो विणिद्दिट्टो । ( अनु० चू० पत्र ७०) अकस्थापना-४२९४९६७२९६ । अस्यापि राशेर्वों गाथात्रयेण प्रतिपाद्यते----
लक्खं कोडाकोडी, चउरासीइं भवे सहम्साई ।
१ सा चैक्ये द्वन्द्वमेययोरिति 'एकचलारिंशति' इति माव्यम्, भविष्यत्यपि, तथापि लेखकेन पण्डितंमन्येन वा केनाप्येतद् अङ्कितं लक्ष्यते ॥ २ द्वादश मुहूर्ता गर्भजेषु सम्मूछिमेषु चतुर्विंशतिः । उत्कर्षतो विरहकालः द्वयोरपि च जघन्यतः समयः ॥ ३ चलारि च कोटिशतानि एकोनशिश्च भवन्ति कोटयः । एकोनपश्चाशद् लक्षाः सप्तषष्टिरेव च सहस्राणि ॥ द्वे च शते षण्णवतिः पश्चमबर्गोऽयं विनिर्दिष्टः ॥४°ग्गो समासत्तो होति
५ लक्ष कोटाकोरी चतुरशीतिभवन्ति सहसामि ।