________________
प्रशस्तिः श्री देवकुमारस्य ( प्रस्तोता-श्री ब्रह्मदत्त मिश्रः, वेद-साहित्य-धर्मशास्त्राचार्यः)
श्रीमान् धनी देवकुमारजैनः श्रारा नगर्यो नितरां यशस्वी । आसीत् सदा धर्मविचारशीलः दिगन्तकीर्तिद्विजसाधुसेवः॥१॥ श्वेताम्बरश्चापि दिगम्बरश्चः जैनौ द्विधा यद्यपि विश्रुतौस्तः। दिगम्बरस्यास्य तथापि कश्चित् न भेदलेशः हृदि सन्निविष्टः ।।२।। मतद्वयस्यास्य समन्वयोय यत्नो महानस्य सदैव चासीत् । विलक्षणेयं प्रतिभा किलैवं अभिन्नभावस्य विभेदबुद्धिः ॥३॥ विद्या प्रचारेऽप्यथधर्मचारे उदारभावस्य किलस्य हिन्दी । भाषाप्रचारेऽविरतां प्रवृत्ति सिद्धान्त गेहः सततं ब्रवीति ॥४॥ तीर्थाटने दक्षिणसंगमेऽस्य अरक्षिताः पुस्तकपुञ्जगेहाः ।। नैके सदा पुस्तकवस्त्रदानैः सुरक्षिताः कीर्तिमितो वदन्ति ॥५॥ सत्संगमेनार्जितपुण्य राशेः धर्मेमतिः संततमस्य चासीत् । देवालयाः जीर्णतमाह्यनेन चोद्धारिताः सन्ति पुरा कियन्तः ॥६॥ विद्यालयानां च सहायतायाः लोकप्रसिद्धा नहि वर्णनीया । कथा यतोऽतः प्रियसाधु वृत्तेः अहं कथं वर्णयितुं समर्थः ॥७॥ यच्छानचिन्तापरिचिन्तितार्थाः लोकोपकाराय सदा समर्थाः । कृतोपकारस्य यशोधनस्य करोमि किंतत् प्रतिकारमस्य ॥८॥ दीनाः सदा यद् गृहमेत्य नैके भिक्षन्ति तुष्टाः नितरां प्रसन्नाः । सदा शिष्टा राशिमहो गृणन्तः यान्तिस्म धन्यं कथयन्त एव ।।९।। लक्षाधिकं रूप्यकर्महतोऽस्य संस्था विशेषे व्ययतिं करेण। पुरार्जितादर्थजनात् स्वहस्तैः निष्काश्य भक्त्या किल धर्मबुध्या ॥१०॥ समीपमागत्य च भिक्षुकगवावा विद्यार्थिनोवाप्यथ साधवो वा। अन्येऽपि ये केवन याचका वा परामुखा नैव यतो बभूवुः ॥११॥ बनान्नपानादिकपुस्तकादिदानेन तुष्टाः द्विजबालकाश्च । गृहीतविद्याः ह्यधुनार्जनेन कुटुम्बराशि परिपालयन्ति ॥१२॥ मात्मा सुतो जायत एव वेदे लेखानुसारेण तदात्मजोऽयं । तदात्म रूपोऽप्यथनिर्मलादि जातः कुमारः सुकुमारबुद्धिः ॥१३॥ पराजयं चेच्छति पुत्रतो यत् एतेन धर्मः पितुरर्जितोऽपि । भक्तूयासहलं गुणिश्चकास्ति लोकोत्तरस्ते न च निर्मलोऽयम् ॥१४॥