________________
महाबाहुबाहुबली ( रचयिता-श्रीयुत पं० के० भुजबली शास्त्री, विद्याभूषण )
आराध्यदेवमभिवन्ध वुधोत्तमानाम् । नांदोलीशचरितं कथयामि भक्त्या । श्रुत्वा त्रिलोकविनुतं चरितं यदत्र ।
मुञ्चन्ति कर्मरजसो भुवि भव्यजीवाः ॥१॥ अस्त्यत्र भारते वर्षे जम्बूद्वीपस्य भूषणे । कोशलाख्यो महादेशः सर्वसद्गुणमण्डितः ॥२॥ आसीत्तत्र पुरे रम्ये नाभिराजो महामनुः । नृपसद्गुणसम्पनो नीतिशास्त्रविशारदः ॥ ३ ॥ नियुज्य वृषभं राज्ये वृषदं वृषनायकम् । स राजा विरतिं प्राप गुरुसाम्राज्यभारतः ॥ ४ ॥ आस्तां तस्य सुनाथस्य वृषभस्य महात्मनः । यशःस्वतीसुनन्दाख्ये पल्यौ शीलसुशोभने ॥ ५॥ सम्बभूवुर्यशस्वत्याः सूनवो भरतादयः । पुत्री ब्राह्मी च सजाता रूपलावण्यमाण्डिता ॥६॥ सुनन्दापि प्रलेभे हि वीरं बाहुबलं सुतम् । पुत्री च सुन्दरीमेवं सुशीलगुणभूषिताम् ॥ ७ ॥ मत्वा सकलसाम्राज्यमेकदा नश्वरं ध्रुवम् । स राजा चिन्तयामास सर्वं हेयं विवेकिनाम् ॥ ८॥ एवं विचिन्त्य तत्सर्वं त्यक्तराज्यो महीपतिः । बभार जिनदक्षिां तो लोकद्वयसुखावहाम् ॥ ६ ॥ दक्षिोन्मुखेन तातेन प्रदत्ता प्रमुखा मही । सुजेष्ठाय सुयोग्याय भरताय विवेकिने ॥१०॥ एवमन्यान्यपुत्रेभ्यो दत्तं राज्यं सुवेषसा । सुयोग्यसम्पदं प्राप्य सर्वेऽपि सुखिनोऽभवन् ॥११॥