________________
कण्डिका ९]
परिशिष्टम् । (श्राद्धका०) इत्थं श्राद्धोपयोगि सर्वमभिधायेदानी गृहस्थस्य काम्यकमौचित्याच्छ्राद्धेषु काम्यकालानुपचिकंसुः सूत्रमारभते-'अथ काम्यानि भवन्ति' श्राद्धानीति शेषः । तत्राथशब्दः कानार्थः । न केवलं तिथय एव काम्यकालाः, किं त्वन्येऽपि स्मृत्युक्ता ज्ञेयाः इत्यर्थः । तथा च-संक्रान्तिर्विषुवञ्चैव विशेषेणायनद्वयम् । व्यतीपातो जन्मत्ररक्षं चन्द्रसूर्यग्रहौ तथा । तिथिनक्षत्रवारश्च उद्दिश्याभ्युदयं तथा । एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिरिति । संक्रान्तिविषुवायनादिन्यातयोः पुण्यातिशयेन विशेषोपादानात् । व्यतीपातत्रिविधः-महाल्पनित्यभेदेन । तथा च सिंहस्थो गुरुभौमे च मेषस्थो च खों सिता । द्वादशी हस्तसंयुक्ता व्यतीपातो महांस्तु सः । अल्पस्तु श्रवणाश्विधनिष्ठा नागदेवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते । ननु चाथशब्देन स्मृत्युक्तकालस्य संगृहीतत्वादन भाद्रपदीमारभ्य किमिति श्राद्धं शूद्रकृता बुद्धिस्थ एवेत्यविरोधः (१) । तस्मासौर्णमास्यामेवोपक्रमः । श्राद्धषोडशकस्येति प्रागुक्तम् । तथा च वायुपुराणम्-पुष्टिं प्रजां स्मृति मेधा पुत्रानैश्वर्यमेव च । कुर्वाणः पौर्णमास्यां तु संपूर्णफलमश्नुते । प्रतिपद्धनलाभायेत्युपक्रम्य अमावास्यां प्रयत्नेन श्राद्धं कुर्याच्छुचिः सदा । सर्वान्कामानवाप्नोति स्वर्गस्थानत्यमश्नुते । इति श्राद्धषोडशकं प्रतीतम् । प्रपश्चितं चास्माभिरादिसूत्र इत्यलं पौनरुत्तयेनेति । फलानि तिथिष्वाह-- 'खियो प्रतिरूपाः प्रतिपदि श्राद्धकूल्भत इति शेषः । अप्रतिरूपाः अद्वितीयरूपाः स्त्रियो भार्याः । एतच्च कामनान्तरोपलक्षणम् । तथा च मनु:-कुर्वन्प्रतिपदि श्राद्धं सुरूपान् लभते सुतानिति । वायुपुराणे-प्रतिपद्धनलाभाय लब्धं चास्य न नश्यतीति । कन्यामिति याज्ञवल्क्य इत्यादि । अत्रै. तचिन्त्यते-मृतपित्रको जीवन्मातामहः किं पटिण्डकश्राद्धं कुर्यादुत त्रिपिण्डकमिति । अत्रैक आहुः-द्विपार्वणस्य विहितत्वाज्जीवन्मातामहमतिक्रम्यापि कुर्वीतेति । तथा च मनुः-ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वापि तं श्राद्धे स्वकं पितरमाश्रयेत् । पिता यस्य तु वृत्तः स्यान्नीवेद्वाऽपि पितामहः । पितुः स नाम संकीय कीर्तयेत्प्रपितामहम् । पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः । इति तदविचारितरमणीयम् । अस्य सार्धश्लोकद्वयस्य साग्नेरन्वाहार्यादिनियतश्राद्धविषयत्वात् । तथा च निगमः-यो वा जीवति पितृणां तं पिण्डस्थान इत्येके । जीवतो जीवतां वा देयमिति हिरण्यकेतुः । कस्माद्यज्ञविधित्वादशीगत्वादिति । नन्वेवं जीवत्पितृकस्य होमान्तमनारम्भो वेति कात्यायनेनान्वाहार्यादिनिषेधात्कथमेवमिति। सत्यम् । कात्यायनोक्तर्वाजसनेयिमाननिषेधविषयत्वादितरसानीनां मनुवचनैः जीवदतिक्रमस्य विहितत्वात् । किं चार्थान्तरं सूत्रस्य । वाजसनेयिमानस्य पिता स्वस्थशो (1) जीवति तदा होमान्तमनारम्भो वा विकल्पितः। यदि संन्यासी पतितो वा जीवति तदा वाजसनेयिनोऽपि जीवदतिक्रमः सूत्रकृतोऽभिप्रेत इति । तथा च कात्यायनः-ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते । व्युत्क्रमाच मृते देयं येभ्य एव ददात्यसाविति । किं च-न जीवरिपतृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । येभ्य एव पिता दद्यात्तेभ्यो दद्याच्च साग्निकः । इत्यनेन साग्निजीवपितृकस्यैवातिक्रमो विहितो न निरग्नेरिति । अपि च-दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षकम् । न जीवत्पितृकः कुर्यात्तिलः कृष्णैश्च तर्पणमित्यादौ पितृग्रहणं जीवन्मातामहाद्युपल. क्षणम् । तेनापि जीवन्मातामहस्य निषेधः । अन्यच्च-उद्वाहे पुत्रजनने इत्यत्रापि षड्वहणेनापर. पाक्षिकं न विहितम् । यत्तु, जीवत्पितरि वै पुत्रः श्राद्धकालं विवर्जयेत् । येषां वाऽपि पिता दद्यात्तेपामेके प्रचक्षते । इति हारीतोक्तम् । यच्च पितुः पितृभ्यो वा यात्सपितेत्यपरा श्रुतिः। इति कात्यायनादिभिरुक्तं तत्सपिण्डीकरणविषयमाभ्युदयिकम् । तथा च वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः। इति । यत्पुनः-पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । अविशेषेण कर्तव्यं विशेपानरकं व्रजेदिति । यच्च-" पिण्डाः स्युः षडितिस्थितिः ॥ इत्यादिवचन