________________
कण्डिका]
प्रथसकाण्डम् । स्थालीपाकानां कर्म क्रियेति । स्थालीपाकशब्द आज्यपुरोडाशाद्युपलक्षणार्थः । कथं ज्ञायते, येन स्थालीपाकमुपक्रम्याज्यमुपसंहरति निरुप्याज्यमित्यादि । एक्माज्यग्रहणमपि चर्वाद्युपलक्षणार्थम् यतः सर्वसाधारणमेवेदं कर्म नह्यस्य कर्मणः कुतश्चित्प्रकृतेः कस्याञ्चिद्विकृतावतिदेशोऽस्ति । यत्प्रधानविधिरविध्यन्वितः पठ्यते सा प्रकृतिः । यथा दर्शपूर्णमासौ । यत्प्रधानविधिरड्यविधिरहितः पठ्यते सा विकृतिः । यथा सौर्यः । न च दर्शपूर्णमासविधौ प्रयाजविधेरिव एतत्कर्मविधेः कस्मिंश्चित्प्रधानविधौ शेषभावोऽस्ति यतः सर्वाण्येव कर्माणि प्रकृत्य धर्मविधानम् । सर्वसाधारणं कर्माह 'परि० धाय : दभैः परिसमुह्य गोमयेनोपलिप्य वज्रेणोल्लिख्यानामिकाङ्गुष्ठेनोद्धृत्योदकेनाभ्युक्ष्य तस्मिन्नग्निं स्थापयेत् । त्रिरुल्लेखनम् त्रिरुद्धरणमिति हरिहरः । परिसमूहनादि पञ्चापि त्रिनिरित्यन्ये । कोपाध्यायैरपि विपर्यस्य पिन्येषु सकृद्दक्षिणा च' इत्येतत्सूत्रव्याख्यानावसरे यदभ्यस्तं रूपं देवे स्मर्यते तत्पित्र्ये सकृत्कर्तव्यम् । यथा परिसमुह्योपलिप्योल्लेखनमिति लेखनेनैव तावद्दर्शितम् , दैवे परिसमूहनादि त्रित्रिः पित्र्ये सकृत्सकृत् इति । एते पंच भूसंस्कारा इति भर्तृयज्ञभाष्ये । अग्न्या इति कोपाध्यायाः। तेन यत्र यत्राग्नेः स्थापनं तत्र तत्रैते कर्तव्याः अतः औताग्निस्थापनेऽपि कर्तव्याः । न चैतेषां स्थालीपाकविधावन्तर्भावः । येन एष एवं विधिर्यत्र कचिद्धोम इत्यभिहितेऽपि पुनरभिधीयते-उद्धतावोक्षितेऽग्निमुपसमाधायेति । नूनमनैनाप्रवृत्तिः । अग्निसाध्यानि स्मार्तानि सर्वाण्यावसथ्याग्नौ कार्याणि । तथा च स्मृतिः । कर्म स्मात विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वापि औतं वैतानिकाग्निष्विति । तस्मिन्गृह्याणीत्यापस्तम्वस्मरणाच । गृहाय हितं गृह्यं गृहशब्दश्च दम्पत्योर्वतते तस्मिन्नित्यावसथ्ये । अतश्च यक्कि चिदम्पत्योर्हितं कर्म शान्तिकपौष्टिकताङ्गहोमादिकं स्मात तत्सर्वमावसध्येऽग्नौ भवतीति । अत एवाह कात्यायन:- स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम् । स्वगर्भसक्रियार्थीश्च यावन्नासौ प्रजायते ॥ अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः । नहि पित्रा समानीतः पुत्रस्य भवति कचित् ।। अतश्च सीमन्तोन्नयनमपि स्मार्तामावेव कार्यमिति देवभाष्ये परिभाषायाम् । स्फ्येनोल्लेखनमिति गर्गहरिहरौ । काष्ठेन कुशमूलेन वेति केचित् । अनैतद्विचार्यते-किमावसथ्याधानादिषु वक्ष्यमाणेषु सर्वकर्मसु अध्वर्योः कर्तृत्वम् उत यजमानस्येति । अध्वर्युः कर्मसु वेद्योगादिति परिभाषणात् , पूर्णपात्रो दक्षिणा वरो वेति दक्षिणाम्नानाध्वयोः कर्तृत्वमिति चेत् उच्यते-न स्मार्तेपु कर्मसु अध्वयोंः कर्तृत्वं वेदयोगाभावात् । समाख्यया हि अध्वयोः कर्मसु योगः, समाख्या हि वेदयोगात् नच स्मातें वेद्योगोऽस्ति नहि ज्ञायते अमुकवेदोक्तं स्मातमिति। तथाच श्रुति:--सहोवाच यवृक्तोभूरिति चतुहीतमायं गृहीस्वा गार्हपत्ये जुहवथ, यदि यजुष्टो भुव इति चतुर्ग्रहीतमाज्यं गृहीत्वाऽऽग्नीघ्रीये जुस्यान्वाहार्यपचने वा हविर्यज्ञे, यदि सामतः स्वरिति चतुर्गृहीतमाज्यं गृहीत्वाऽऽहवनीये जुहवथ, या अविज्ञातमससर्वाण्यनुद्रुत्याहवनीये जुहक्थेति । अविज्ञातं स्मात यन्न ज्ञायते किमाग्वेदिकं किं याजुर्वेदिकं कि वा सामवेदिकमिति । नापि दक्षिणान्यथानुपपत्त्यान्यस्य कर्तृत्वम् । अस्ति यत्रान्योऽपि ब्रह्माख्यः कृताकृतावेक्षकत्वेन कर्ता तदर्थः परिक्रयोऽयमिति दक्षिणार्थापत्तिः । तस्मात्स्वस्यैव कर्तृत्वम् । दक्षिणतो ब्रह्मासनमास्तीर्य स्थापितस्याग्नेर्दक्षिणस्यां दिशि ब्रह्मण उपवेशनाथै दर्भान्निधाय ब्रह्मोपवेशनं कुर्यात् । ननु दक्षिणतो ब्रह्मयजमानयोरासने इति परिभाषातो दक्षिणत आसनं प्राप्त किमर्थं पुनर्दक्षिणग्रहणम् । सत्यम् पुनर्दक्षिणग्रहणं यजमानस्य तत्रासनं मा भूदित्येतदर्थमित्यदोषः । एवं च यजमानासनं वचनामावे सर्वत्राग्नेरुत्तरतः स्यात् , उत्तरत उपचार इति परिभापणात् । तत्र पुनर्वचनं यथा पश्चादग्नेस्तेजनीकटं वा दक्षिणपादेन प्रवृत्योपविशतीति तत्र तत्रैवोपवेशनम् । यद्वा दर्शपूर्णमासविपया परिभाषेयम् वेदिस्मृगिति सूत्रे तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीतेति श्रुतौ चोक्तत्वात् । तेनात्राप्राप्तिवेद्यभावाद्दक्षिणग्रहणमपूर्वविधानार्थम् । अतोऽपि