________________
६७६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. कार्यः । एवं मासकल्पोऽपि द्वितीय एकक्षेत्रे उत्सर्गतो न कार्य ऋतुबके काले। कुतः। गृहस्थादिसंगदोषात्। द्वितीयं तृतीयं वा वर्षमासं वा परिहत्य तत्र क्षेत्रे वसेदपि । किं बहुना सर्वत्रैव सूत्रमार्गेण चरेत् । निकुरागमादेशे वर्ततेति नावः । तथापि न उघत एव यथाश्रुतग्राही स्यात् । अपितु सूत्रस्य अर्थः पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगों यथाज्ञापयति नियुङ्क्ते तथा वर्तेत न अन्यथा। यह अपवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादि परिवर्तेत नान्यथा शुकापवादायोगादित्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेदाणेन अनुष्ठानेन वर्तेत । नतु तथाविधलोकेहायातं परित्यजेत्।आशातनाप्रसङ्गात् ॥११॥
(टीका.) विहारकालमाह । संवबरं ति सूत्रम् । अस्य व्याख्या । संवत्सरं वापि । अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते । तमपि। अपि
शब्दान्मासमपि परं प्रमाणम् ।वर्षाऋतुबद्ध्योरुत्कृष्टमेकत्र निवासकालमानमेतत् । छि। तीयं च वर्षम् । चशब्दस्य व्यवहित उपन्यासः। द्वितीय वर्ष वर्षासु चशब्दान्मासं च शतुबके न तत्र क्षेत्रे वसेत् । यत्रैको वर्षाकल्पोमासकल्पश्च कृतः । अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहृत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः । सर्वथा किं बहुना सर्वत्रैव सूत्रस्य मार्गेण चरेनिकुः । आगमादेशेन वर्त्ततेति जावः । तत्रापि नौघत एव यथाश्रुतग्राही स्यात्। अपि तु सूत्रस्यार्थः पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगों यथाज्ञापयति नियुङ्क्ते तथा वर्तेत नान्यथा।यहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादिसाधूनां संस्तारगोचरादि परिवर्तेत नान्यथा शुजापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्तेत। नतु तथाविधलोकेहायातं परित्यजेत्तदाशातनाप्रसङ्गादिति सूत्रार्थः॥ ११ ॥
जो पुत्वरत्तावररत्तकाले, संपिकई अप्पगमप्पगेणं॥ किं मे कम किञ्चमकिच्चसेस, किं सक्वणिऊं न समायरामि॥१२॥ (श्रवचूरिः) एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह । यः साधुः पूर्वरात्रापररात्रकाले रात्रिप्रथमचरमप्रहरयोरित्यर्थः। संप्रेक्षते सूत्रोपयोगनीत्या आत्मानमा त्मनैव । कथमित्याह । किं मे कृतमिति । गन्दसत्वात्तृतीयार्थे षष्ठी। किं मया कृतं शक्त्यनुरूपं तपश्चरणादि । किं च मम कृत्यशेष कर्त्तव्यशेषमुचितम् । किं वा शक्यं वैयावृत्त्यादि न समाचरामि न करोमीति ॥ १२ ॥