________________
६६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. कार्यः । एवं मासकल्पोऽपि द्वितीय एकदेत्रे उत्सर्गतो न कार्य ऋतुबके काले। कुतः। गृहस्थादिसंगदोषात्। द्वितीयं तृतीयं वा वर्षमासं वा परिहृत्य तत्र क्षेत्रे वसेदपि । किं बहना सर्वत्रैव सूत्रमार्गेण चरेत् । निकुरागमादेशे वर्ततेति नावः । तथापि न उघत एव यथाश्रुतग्राही स्यात् । अपितु सूत्रस्य अर्थः पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगों यथाज्ञापयति नियुङ्क्ते तथा वर्तेत न अन्यथा। यह अपवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादि परिवर्तेत नान्यथा शुझापवादायोगादित्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेदणेन अनुष्ठानेन वर्तेत । नतु तथाविधलोकेहायातं परित्यजेत्।आशातनाप्रसङ्गात् ॥११॥
(टीका.) विहारकालमाह । संवबरं ति सूत्रम् । अस्य व्याख्या । संवत्सरं वापि । अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते । तमपि। अपिशब्दान्मासमपि परं प्रमाणम् ।वर्षाऋतुबझयोरुत्कृष्टमेकत्र निवासकालमानमेतत् । वि. तीयं च वर्षम् । चशब्दस्य व्यवहित उपन्यासः। द्वितीय वर्ष वर्षासु चशब्दान्मासं च ऋतुबके न तत्र क्षेत्रे वसेत् । यत्रैको वर्षाकल्पोमासकल्पश्च कृतः । अपितु सङ्गदोषाद हितीयं तृतीयं च परिहत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः । सर्वथा किं बहुना सर्वत्रैव सूत्रस्य मार्गेण चरेनिङः । आगमादेशेन वर्त्ततेति नावः । तत्रापि नौघत एव यथाश्रुतग्राही स्यात्। अपि तु सूत्रस्यार्थः पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादग! यथाज्ञापयति नियुङ्क्ते तथा वर्तेत नान्यथा। यहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासा दिसाधूनां संस्तारगोचरादि परिवर्तेत नान्यथा शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थ प्रत्युपेक्षणेनानुष्ठानेन वर्तेत । नतु तथाविधलोकेहायातं परित्यजेत्तदाशातनाप्रसङ्गादिति सूत्रार्थः ॥ ११ ॥
जो पुवरत्तावररत्तकाले, संपिकई अप्पगमप्पगेणं॥ किं मे कम किच्चमकिच्चसेस, किं सक्वणिऊं न समायरामि ॥१२॥ (श्रवचूरिः) एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह । यः साधुः पूर्वरात्रापररात्रकाले रात्रिप्रथमचरमप्रहरयोरित्यर्थः । संप्रेक्षते सूत्रोपयोगनीत्या आत्मानमात्मनैव । कथमित्याह । किं मे कृतमिति । गन्दसत्वात्तृतीयार्थे षष्ठी। किं मया कृतं शक्त्यनुरूपं तपश्चरणादि । किं च मम कृत्यशेषं कर्त्तव्यशेषमुचितम् । किं वा शक्य वैयावृत्त्यादि न समाचरामि न करोमी- ॥ १२ ॥