________________
दशवैकालिके चतुर्थाध्ययनम् ।
१३
शीघ्रं गछन्ति अमरजवनानि देवविमानानि । ते के इत्याह । येषां प्रियं तपः संयमः कान्तिः ब्रह्मचर्यं च ॥ २८ ॥
( दीपिका. ) इति पूर्वप्रकारेण एतां षड्जीव निका विकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेत् इति योगः । क इत्याह । सम्यग्दृष्टिर्जीवः सूत्रश्रद्धावान् । किंभूतः । सदा यतः सर्वकालं यतनापरः । किमित्याह । दुर्लभं लब्ध्वा श्रामण्यं सा - धुत्वं षड्जीव निकायसंरक्षणैकरूपं कर्मणा मनोवाक्काय क्रियया प्रमादेन न विराधये - त् । श्रप्रमत्तस्य तु यद्यपि कथंचित् द्रव्य विराधना स्यात् तथापि सौ न विराधकः 1 एतेन "|| जले जीवाः स्थले जीवा, याकाशे जीवमाविनि ॥ जीवमालाकुले लोके, कथं निकुर हिंसकः ॥" इत्येतत् प्रत्युक्तम् । तथा सूक्ष्मजीवानां विराधनाया अनावाच्च । ब्रवीमीति पूर्ववत् ॥ २७ ॥
इति श्री समय सुन्दरोपाध्याय विरचितायां दशवैकालिकवृत्तौ बड्जीव निकाध्ययनम् ॥४॥
( टीका. ) महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह । इच्चेयमित्यादि । इत्येतां षड्जीवनिका विकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदितियोगः । सम्यग्दृष्टिर्जीवस्तत्त्वश्रद्धावान् सदा यतः सर्वकालं प्रयत्नपरः सन् । किमित्याह । डुर्लनं लब्ध्वा श्रामण्यं दुष्प्रापं प्राप्य श्रमणनावं षड्जीव निकायसंरक्षणैकरूपं कर्मणा मनोवाकाय क्रियया प्रमादेन न विराधयेन्न खमयेत् । श्रप्रमत्तस्य तु द्रव्यविराधना यद्यपि कथं चिद् नवति । तथाप्यसाव विराधनैवेत्यर्थः । एतेन ॥ जले जीवाः स्थले जीवा, श्राकाशे जीवमा लिनि ॥ जीवमालाकुले लोके, कथं निर हिंसकः ||१||' इत्येतत्प्रत्युक्तम् । तथासूक्ष्माणां विराधनाजावाच । ब्रवीमीति पूर्ववत् । श्रधिकृताध्ययनपर्यायशब्दप्रतिपादनायाह नियुक्तिकारः ॥ जीवाजीवा निगमो, यायारो चेव धम्मपन्नत्ती ॥ तत्तो चरित्त धम्मो, चरणे धम्मे एगहा ॥ २५ ॥ व्याख्या ॥ जीवाजीवा निगमः सम्यग्जीवाजीवा जिगमहेतुत्वात् । एवमाचारश्चैवाचारोपदेशत्वात् । धर्मप्रज्ञ तिर्यथाव स्थितधर्मप्रज्ञापनात् । 'ततश्चारित्रधर्मस्तन्निमित्तत्वात् । चरणं चरण विषयत्वात् । धर्मश्च श्रुतधर्मस्तत्सारभूतत्वात् । एकार्थका एते शब्दा इति गाथार्थः । अन्ये त्विदं गाथासूत्रमनन्तरोदितसूत्रFirst व्याख्यानयन्ति । तत्राप्यविरुद्धमेव । उक्तोऽनुगमः । सांप्रतं नयास्ते च पूर्ववदेव । व्याख्यातं षड्जीव निकाध्ययनम् ॥ २८ ॥
इति श्रीहरिनद्रसूरिकृतौ दशवैका लिकटीकायां चतुर्थाध्ययनम् ॥ ४ ॥