________________
मात्मतस्वविवेकः :
दीधितिटिप्पणी। भावसिदी साध्यसिद्धौ सत्यामेवानयोरभाषः सिद्धव्याप्तिकः स्या. दित्यर्थः॥
कल्पलता। कुशलस्थं बीजं यदि कुर्वपस्वजानिमत् स्यात् कुर्यात क्षेत्रपतितबीजवदिति प्रसई निरस्यति । न द्वितीय इति । तस्य जातिविशेषस्य । दृष्टान्तस्येति । क्षेत्रपतितेपि बीजे कुर्वगत्वं नास्ति, तथा चापादक. विकलो दृष्टान्त इत्यर्थः। ननु तवानभ्युपगममात्रेण कथं जातिविशेषविरह इत्यत आह । को हीति। प्रमाणाभा. वाधीन एवानभ्युपगमो ममेति भावः। प्रमाणाभावमेवोपपादयति । स हीति । अनुभव आलोचनम्(१), तस्यैव तन्मते प्रमाणत्वात्। तथानवसायादिति । अव. सायः सविकल्पकम् , तदेवालोचनोनायकम् , तदभावादालोचने प्रमाणान्तरं(२) नास्तीत्यर्थः। लिङ्गाभावादिति। स चानुपलम्भादिति भावः।(ननु) करणा(३)न्यथानुपपत्त्यु. नेय एव जातिविशेषस्तदभावश्चाकरणो(४)न्नेयः कुशूलस्थ इत्याह । यदीति । अर्थापत्तावन्यथोपपत्तिशङ्कामाह। क एवमाहेति । सहकारिलाभाधीनं करणं तंदभावाधीनमकरण मिति(५) यद्यपि निश्चय एव,तथाप्यापाततःस
(१) निर्विकल्पकमित्यर्थः । (२) प्रमाणं-पुण० पु० पा० । अयमेव युकः। (१) कारणा-पुण. पु० पा०। (४) कारणो-पुण० पु. पा० । (५) तदलाभाधीनमकरणामेति- कति. मु.पु. पा० ।