________________
·
आत्मतस्वषिका
कल्पलता ।
"
प्रसङ्गेति । प्रसङ्गाभ्यां विपर्ययाभ्यां चेत्यर्थः । तथाहि, कुशूलस्थं बीजं पणङ्कुरसमर्थ स्यादङ्कुरं कुर्यात्, न च करोति, तस्मात्र समर्थम् एवं क्षेत्रपतितं प समर्थ स्थान कुर्यात् करोति च तस्मान्नासमर्थमिः ति प्रसङ्गाभ्यां विपर्ययाभ्यां च कुशलस्थ क्षेत्रपतितबीजयोर्भेदः । तथा च क्षणिकत्वमेव पर्यवस्येदिति भावः । समर्थस्य क्षेपायोगादिति तत्कालीनं साम यै तत्कालीन फलोपधानलक्षणं कारित्वमापादयतीति यदा कदाचित् करणेन न सिद्धसाधनम् । करणमिति । फलोपधानमित्यर्थः ।
नाय: ( १ ), साध्याविशिष्टत्वप्रसङ्गात् । व्यावृत्तिभेदादयमदोष इति चेन्न । तदनुपपत्तेः । व्यावर्त्यभेदेन
1
दीधितिः ।
नाघः पक्षः । एवमुचरत्रापि ( २ ) । साध्येति । साध्यं व्यापकम् । तथा चापाद्यानुमेयाभ्यामापादकानुमापकयोरविशेषसङ्गादित्यर्थः । असमर्थाकारिन्याद्वयोर्भिन्नयोरेव समर्थकारिपदाभ्यामभिधानान्न साध्याविशेष इत्याह । व्यावृत्तीति । तदनुपपतेः व्याहृतिभेदानुपपत्तेः । व्यावर्त्यभेदः एकेन व्यावर्त्यस्य विशेष्यस्य भेदोऽपरव्यावर्त्यत्, एकोप दीधितिटिप्पणी ।
साध्याविशिष्टेति मूले प्रसङ्गविपर्यययोर्द्वयोरेव दोषो दसः, अत्र च साध्यपदेन न प्रसङ्गसङ्ग्रहः स्यादत आह । साध्यमिति । वृक्षशि पारूपव्यापत्ययोर्भेदस्य परस्परविरोधाभावादर्थमाह । एकेनेति । (१) न तावदाद्यः - पुण० पु० पा० । ( २ ) टिप्पणीकृन्मतोयं पाठः । एवमप्रेषि इति सर्वत्र