________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । ९
इह खलु निसर्गप्रतिकूलस्वभावं सर्वजनसम्वेदनसिद्धं दुःखं जिहासवः सर्व एव तद्धानोपायमविद्वांसो - ऽनुसरन्तश्च सर्वाध्यात्मविदेकवाक्यतया तत्वज्ञानमेव त
दीधितिः ।
त्यादिना विविच्यत इसन्तेन । तत्र प्रयोजनमपवर्गः, अभिषेयमात्मतत्त्वम्, सम्बन्धो ग्रन्थात्मतत्वज्ञानापवर्गाणां हेतुहेतुमद्भावो ग्रन्थात्मतत्त्वयोर्ज्ञाप्यज्ञापकभावश्च । सुखमिवा ( १ ) त्मगुणो दुःखमपि न हेयं, हेयं वा सुखविरोधितामात्रेण कामिनीं सम्बुभुक्षोरिव
"
•
दीधितिटिप्पणी |
विविश्यत इति । तत्राऽपि 'इह संसारे... एवमाकर्णयन्ति' इत्यन्त मान्तरसम्बन्धः । अभिधेयस्य सम्बन्ध एवापेक्षित इति तमाह । ग्रन्थात्मतत्त्वयोरिति । सुखवदित्यादि । दुःखं जिहासव इस्येतावन्मात्रोको निखिलदुःखहानेच्छा प्राप्ता स्यात्, निसर्गेत्यादि किमर्थमत इत्थं प्रणालीति । अयमर्थः, आत्मगुणो दुःखं न हेयं सुखवत्, अन्यथा सुखमपि तथा स्यादत उक्तम, प्रतिकूलस्व•
ऽभिधेयतया लाभः । विशिष्याऽभिधेयकथनं चैतद्मन्यप्रतिपायार्थेऽन्यतो ज्ञातत्वशङ्कानिवृत्तये, तच्छङ्काया एतद्ग्रन्थाधीनार्थज्ञाने सिद्धत्वशङ्करूपतया प्रवृत्तिविरोधित्वात् । आत्मतत्त्वप्रतिपादक प्रन्थाध्ययनस्य सफलत्वज्ञानेऽप्यनिष्पन्नस्य प्रकृतप्रन्ये तादृशतत्त्वप्रतिपादकत्वग्रहस्य सम्पादनाय वा तदभिधानम् । प्रन्येति । हेतुहेतुमद्भाव इति । ग्रन्थात्मतत्त्वज्ञानयोर्हेतुभावः, अपवर्गस्य हेतुमद्भाव इत्यर्थः । मन्थात्मतत्वज्ञानयोर्मियो हेतुहेतुमद्भावस्तु न विवक्षितः ग्रन्थात्मतत्त्वयोर्ज्ञाप्यज्ञापकभाव इत्यत एव तल्लाभात् । एवञ्च तत्त्वज्ञानंमेव तदुपायमाकर्णयन्तीत्यतस्तत्त्वज्ञानस्य मोक्षहेतुत्वलाभः, आत्मतत्त्वमत्र विविच्यत इत्यतश्वात्मज्ञानस्य ग्रन्थहेतुकत्वलाभे ग्रन्थस्य तत्वज्ञानद्वारा हेतुवस्याऽर्थादेव लाभः । उपाय प्रयोजनयोर्हेतुहेतुमद्भावग्रहस्त्विष्टसाधनताधीमुद्रया प्रवृत्त्युपयोगीति बोध्यम् । ग्रन्थापवर्गये। र्हेतुहेतुमद्भावलाभस्याऽऽर्थिकतया साक्षात्तदलाभात्साक्षाल्लभ्यस्तदुपपादको ग्रन्थात्मतत्त्वयोर्ज्ञाप्यज्ञापकभावसम्बन्ध उक्तः । तस्य चात्मतस्वमंत्र विविच्यत इत्यत एव लाभो बोध्यः ।
( १ ) अपवर्गस्य स्वतः पुरुषार्थत्वमन्तरेणोक्तरीत्या ग्रन्थे सप्रयोजनत्वावधारणासम्भवात्तदुपपादनपरतया निसर्गेत्यादिविशेषणद्वयं व्याख्यातुकामः शङ्कामवतारयति । सुखमिवेत्यादिना । आत्मगुण इति । श्रात्मेति सम्पातायातम् । अत्र सुखवदात्मगुण इति टिप्पणीकृम्मतः पाठः ।