________________
टिप्पणीसमलङ्कतदीधिति-कल्पलताब्यटीकाद्वयविभूषितः। ५
दीधितिः। आत्मनामुत्पत्यभावेऽपि विशेषणस्य शरीरस्य तथात्वाद्विशिटस्य तथा व्यपदेशः । अपूर्वशरीरादिसम्बन्धरूपं तु जन्म न मुख्यो जन्यर्थः, न वा तावसापि स्वाम्पनिर्वाहः । पालनं रक्ष.
.. दीधितिटिप्पणी। स्य क्रयाघसमानकालीनार्थकत्वेन सादावेवेशस्थ सम्भव इत्यता सङ्कोचस्योक्तत्वात्(१) । विशेषणस्येति । निखिलशरीरिणामित्यत्र शरीरस्य विशेषणत्वादित्यर्थः । तथा व्यपदेशः जनितत्वष्यपदेशः । जनितत्वं विशेषणद्वारा न वाच्यं, किन्तु साक्षादेवेत्यादिक केषाश्चिन्मतं दूषयति । अपूर्वेति । न मुख्य इति । जनेरुत्पत्तावेव मुख्यत्वात, तथा च लक्षणा स्यादिति भावः । मन्मते तु जनेर्मुख्यार्थरक्षणम्, परम्परासम्बन्धेनोत्पत्तिमत्वं क्तप्रत्ययेन बोध्यत इति भावः । न च भवमते वा क्तप्रत्यये लक्षणा, मन्मते वा जनघाती लक्षणेति स. मानमेवेति वाच्यम् । जनित इत्यत्र क्तप्रत्यये लक्षणाया भवन्मते. ऽप्यावश्यकत्वात् ,आश्रयत्वरूपेणाऽऽश्रयबोधने कर्मकृत्प्रत्ययस्य ल. क्षणास्वीकारात, तथा चाऽऽवश्यकलाक्षणिक एव लक्षणा स्वीकियते, न तु जनेर्धातोरिति भावः। केचित्तु विशेषणस्य तथात्वादिशि. ष्टस्य तथा व्यपदेशो निरूढलक्षणया, निरूढलक्षणा च शक्तितुल्येत्येव नियामकमाहुः । अपूर्वशरीरसम्बन्धे निरूढलक्षणाया मुख्यतुल्यत्वे पदमुख्यत्वेऽपि न क्षतिरत आह । न वेति । विशेषणशरीरोत्पादक. स्वेनैव पितुर्विशिष्टे यथेष्टविनियोगलक्षणस्वत्वस्य सत्वादिति भा.
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ।।' इत्यादिमन्वादिवचनोपानदायादिपरिग्रहः ।
(१) ननु शिवस्वं नाऽऽददीतेत्यादिप्रमाणवलापदि दानादिनन्यं स्वत्वमीश्वरस्याऽनक्रियते तदा यथाश्रुतेsपि अवच्छेदकावच्छेदेनाऽन्यवानुरोधात् सोचः सम्भवदुक्तिकः, अन्यथेदानीन्तनपतनद्रव्यविशेषे ईशस्य क्रयाधनपेक्षस्वत्वासत्त्वाद्वाध एव स्यादिति चेत्र । स्वत्वधारापनिवारणाय सजातीयस्वृत्वं प्रति सजातीयस्वत्वत्य प्रतिबन्धकताकल्पनस्याऽऽवश्यकतया पूर्वस्वत्वसत्त्वे स्वत्वान्सरोत्पस्यसम्भवेन स्वत्वद्वयस्य स्वीकर्तुमशक्यत्वात् , शिवादेनित्यतृप्तस्येदं मम भवत्वितिस्वीकारासम्भविन तत्र तदीयस्वत्वोत्पनेरसम्भवाच,शिवस्वमित्यादिश्यवहारस्य त्यागीयशिवनिष्ठविषयतानिरूपितविषयताश्रयत्वमादायैवोपपादनीयत्वात्। त्यज्यमानोपचारादौ स्वत्वामावेऽपि तदीयत्वेन द्रव्ये स्वत्वाकगाहिनीका विसंवादकपैक सम्यनिष्ठेऽन्यदायस्वत्वे बाधितं शिवादिनिरूपितत्वमवगात इति कल्यते।