________________
१८ ... आत्मतत्त्वाविषेक ति । अनतिरेके स्थिरवादिनो व्यस्तान्यपि बीजवारिधरणिधामानि तान्येवेति तेभ्योऽपि कार्योत्पत्तिप्रसङ्गः । व्याप्यवृत्तित्वे च सर्वल रक्तादिविभ्रमः शब्दादिकार्योत्पत्तिप्रसङ्गश्व(१) । तस्मादसंयुक्तेभ्योऽन्य एव संयुक्त स्वभावाः परमाणवो जाता इत्येव ज्यायः । नैतदेवम् । क्षणिकपरमाणावप्यस्य(२) विरोधस्य दुरित्वात् । तथाहि । पूर्वदिगवस्थितः परमाणुर्यथा परदिगवस्थितेन परमाणुना पर(३)दिगवच्छेदेनावृतरूप उत्पन्नः, तथैव किं पूर्वदिगवच्छेदेनापि, न वा, उभयथा वा । आये उभ
दीधितिः। (४) विरोध इति शेषः । सर्वत्रेति । तत्त(५)कार्योत्पत्तिनिया मकानां महारजनभेर्यादिसंयोगानां सकलावयब(६)दिग्देशाधपच्छेदेन वृत्तौ तत्तत्कार्याणामपि तथैवोत्पत्तिप्रसङ्गादित्यर्थः । परमाणवः क्षणिक(७)परमाणुपुअरूपा वारिबीजादयः कार्यवि. शेषसमर्था जाता इति । न वेति(८)। परदिग(९)वच्छेदेनाप्य.
(१) प्रसङ्गः- पुण० पु० पा०। (२) परमाणोरप्यस्य-पुण० पु० पा०। . (३) परमाणुनाऽपर-कलि० मु० पु० पा० । (१)त्यस्य -पुण० पु. पा० । एतावता किमायातमित्यत आह । विरोध इतीति।-गुणानन्दः ।
(५) सर्वत्रेत्यस्य समवायेन देशभ्रमं निराकुर्वन् विभ्रमादिपदं कार्यान्तरस्याप्युपलक्षकतया व्याचटे । तनदिति ।-गुणानन्दः ।
(६) अवयवेति महारजनसंयोगाभिप्रायेण । दिग्देशेति शन्दजनकसयोगमधिकृत्या-गुणानन्दः।
(0) असंयुक्तेभ्योऽन्ये स्थिरा एव परमाणवः सन्तु, नैतावता प्रकृतसिद्धिरत आह । क्षजिकेतिा-गुणानन्दः ।
(८) न चेति-कलि. मु. पु० पा०।। (९) न वेन्यस्य प्रतियोगिसाकाङ्कतयाऽग्रिमदोषानुसारेण निष्कृष्य तमाह । परदिगिति ।