________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताव्यटीकाद्वयविभूषितः । १७५
कल्पलता ।
कुर्यादिति विपर्यये दर्शनीये एकदाऽकरणस्यापि या. वत्सत्वाकरणरूपतया व्यत्यासेनैव (विपर्ययो) दर्शित इत्यदोषः । तदेतदिति । प्रसङ्गत द्विपर्ययोपदर्शनमित्यर्थः । जातीति । यज्जातीयमेकदा न करोति तज्जातीयं यावत्सत्त्वं न करोतीति वा, या व्यक्तिरेकदा न करो - ति सा यावत्सत्वं न करोतीति वा विवक्षितमित्यर्थः ॥ दीधितिः ।
यज्जातीयमेकदा (१) यत् करोति तज्जातीयं किचि (२). धावत्सच्वं तत् करोति, यज्जातीयं किञ्चिदपि यावत्सभ्वं यन करोति तज्जातीयं किमपि कदाचिदपि तन करोतीति यदि विवक्षितम्, तदा आधे कस्यचिद्वीजस्य यावत्सभ्वमङ्कुरका रिश्वापत्तावपीतरेषामेकदाङ्कुरकारिणां कालान्तरे तदकरणमविरुद्धम् (३) । द्वितीये च स्वतो (४) हेत्वसिद्धिः, समर्थबीजक्षणस्य यावत्सच्वमङ्कुरकारित्वोपगमात् (५), बाधश्च (६), बीजजातीयस्यैव सहकारिसम्पन्नस्याङ्कुरकारित्वात् । अथ यज्जातीयमेकदा यत्करोति तज्जातीयं सर्वे यावत्सश्वं तत् करोति, यज्जातीयं किश्चिद्यावत्सत्वं यन करोति तज्जातीयं किमपि दीधितिटिप्पणी |
जात्यभिप्रायेण द्विविधप्रसङ्गविपर्ययौ सम्भवतः, तत्र मूलोकदोष एक विषय एव सङ्गच्छते, अतोऽपरत्र को दोषः स्यात्, अतः स्तदप्युदृङ्क्य दूषयति । यज्जातीयमिति । किञ्चिदिति । न च विपर्यये
( १ ) एकदेति सम्पातायातं यावत्सस्वकारित्वस्य व्याप्यताभ्रमनिराकरणाय । - गुणानन्दः । (२) किञ्चिदिति तज्जातीयमात्रस्य यावत्सत्त्व कारित्वभ्रमनिराकरणाय । —गुणानन्दः । ( ३ ) तथा च न सत्त्वेन क्षणिकत्वं तत्रैव व्यभिचारादिति भावः । - गुणानन्दः । (४) च ततो- कलि० मु० पु० पा० ।
(५) कुर्वदूपबीजव्यस्त्वया यावत्स स्वमङ्कुरकारित्वोपगमादित्यर्थः । - गुणानन्दः । (६) बाधकाभावे - पाठः ।