________________
आत्मतत्त्वविवेका
-
ननु यदेकदा यत् करोति तद्यावत्सत्त्वं तत् करो. त्येव, यथा कश्चिच्छब्दः(१) शब्दान्तरमिति प्रसङ्गो
दीधितिः। पर्ययसामान्यासम्भवमसहमानोऽन्तरा प्रसङ्गविपर्ययान्तरमाशइते । नन्विति । कश्चित् अनन्यः । स्वमतेनेदम् । अन्त्यशब्दक्षणिकतामते तु यथान्यः (शब्दः) स्वनाशमिति(२) द्रष्टव्यम् । यावत्सत्वमित्यत्र कार्यपागभावावच्छिन्नत्वेन सवं विशेषणीय. मित्यपि कश्चित(३) । यनु कश्चिदित्यनेनाविनश्यदवस्थोऽपि
दीधितिटिप्पणी। सम्भवस्यक्तित्वात् तद्भनाय यत्किञ्चित्सामान्यप्रदर्शनं कृतमिति भाषः । अपिना चैतदर्थोऽधगम्यते, यदि च तत्स्थितिरङ्गीक्रियते तदापीत्यर्थः, अतः सूचितमित्युक्तम् । अनन्त्य इति । अन्त्यशब्देश शब्दान्तराकरणात तस्य दृष्टान्तत्वासम्भव इतीदमुक्तम् । नन्वन. न्स्यशब्दादि कथं यावत्सत्त्वं शब्दान्तरं करोति, विनश्यदवस्थका. लेऽपराजननात्, (अ)जनने वाऽत्र कः शब्दस्तवापि यावत्सत्त्वं जनय. तीति साध्यवैकल्यम्, अत आह । स्वमतेनेदमिति । स्व:(४) बी. बः । इदम् , दृष्टान्तः(५) । तन्मते सर्वस्य क्षणिकत्वाद्यावत्सत्वं श. ब्दस्य शब्दजनकत्वमिति । नन्वेषमुभयसिद्धदृष्टान्तालाभ इत्यतः स्वयं तदाह । अन्त्यशब्देति । तुः पुनरर्थे, तथा चान्त्यशब्दक्षणिकतावादिनैयायिकैकदेशिनमादायान्त्यशब्दे उभयवादिसिवसाध्यकत्वमिति भावः । अनन्त्यशब्दे नैयायिकमतेपि साध्य. मस्तीति वादिनो मतमाह । यावदिति । अधिनश्यवस्थोपीति । अ. पिनाऽनन्त्योपीति सूचितम् । अन्त्यशब्दस्य द्विक्षणस्थायि(ता)वा.
(१) भविनश्यववस्था--इत्यधिकं शङ्करमिप्रकृनटीकानुसारेणेति कलि०म०पु० टिप्पग्याम् (२) स्वनाशामिति । शम्दान्तरमित्यस्य कयाचिद्व्युत्पत्त्यावंसपरत्वमिति भाषः।-गुणानन्दः । (३) कश्चिदित्यनेनोकविवक्षायामपि द्वितीयक्षणावच्छिनासजनकावारणमस्वरमः । (.)सम्-इत्यावर्शपुस्तके पाठः।। (५) इष्टान्तम्-त्यादर्शपुस्तके २ पुस्तके च पादः ।