________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताख्य टीकाद्वयविभूषितः । १६५
हेतुः कालतोपि न भेदं साधयेत् ।
दीधितिः ।
भेदस्यासिद्धत्वात् (१) । अनैकान्तिक इति भेदप्रसिद्धिमभ्युपेय । तदप्रसिद्धौ तु व्याप्यत्वासिद्धिर्द्रष्टव्या ॥
दीधितिटिप्पणी ।
,
प्रसङ्गादिति (२) हेतुः कचिदिति । भेदस्थ, कुत्रापि स्थले, प्रसि द्विमभ्युपेत्य उक्तम् ॥
9
कल्पलता ।
ननु सामर्थ्यासामर्थ्ये विरुद्धे अध्येकत्र विद्यमाने अपि न धर्मिणं भिन्त ( ३ ) इत्याह । न द्वितीय इति । अनैकान्तिकश्चेति । देशभेदेन ताभ्यां बिरुडाभ्यामपि भेदासाधनादित्यर्थः ॥
न तृतीयः, विरोध ( ४ ) लक्षणयोगे बाधकसह - सूणापि विरोधस्थापनेतुमशक्यत्वात्, अयोगे वा तदेव
दीधितिः ।
अयोगे वा विरोधलक्षणस्न (५), तदेव विरोधलक्षणमेव, दीधितिटिप्पणी ।
विरोधलक्षणपदस्य निर्विभक्त्यन्तत्वादत्रान्वयो न भवतीत्यत आह । अयोगे वेति । भिन्न उपात्तः स्पष्टबोधार्थम् (६) । उक्तविरोधी
(१) न च व्यतिरेकिणि साध्यप्रसिद्धेरनङ्गत्वादिदमयुक्तमिति वाच्यम् । भेदत्वज्ञानमन्तरेण भेदविशेष्यिकाया अयनुमितेरसम्भवात्, तज्ज्ञानस्य च क्वचिदपि भेदप्रसिद्ध्यभावे दुरुपपादत्वमित्यत्रैव प्रयतःत्पर्यात् । केचित्तु अप्रसिद्धसाध्यकभ्यतिरेकिण मनभ्युपगम्यैवेदमुक्त मित्याहुः । ( २ ) इति इत्यत्र, तथा च पूर्वप्रन्थोक्तप्रसङ्गसाधनायोत्तरग्रन्थ इत्यर्थः । ( ४ ) विरोधि - पाठ: ।
(३) भिन्ते - कलि० मु० पु० पा०|
(५) विरोधलक्षणपदस्य समासनिविष्टत्वादनुषङ्गासम्भवादाह विरोधेति । - गुणानन्दः । ( ६ ) विरोधलक्षणस्य इतिन मूलप्रतीकधारणम्, अलीकत्वात्, किन्त्वध्याहृत्य स्पष्टावबोधार्थमुपात्तमिति भावः ।