________________
१५०
आत्मतत्वविवेकः तथाप्येककालस्थ एव भावो जातनष्टस्तदा तदा(१) तत्कार्य(२) करोतु, उत्पन्नमात्रस्य तत्स्वभावत्वात,एकदेशस्थवदिति चेत, सेयमेककालस्थता स्वरूपापेक्षया सहकारिसान्निध्या(३)पेक्षया वा।आये न किञ्चिदनुपपन्नम्, नि. त्यानामप्येवंरूपत्वात् , वर्तमानैकस्वभावत्वात (सर्व:)(४) भावानाम् , तदेव तु क्वचित् सावधि क्वचिन्निरवधीति विशेषः । सावधित्वेऽपि व्यापारफलप्रवाहप्रकर्षाप्रक
दीधितिः। त्वयाभ्युपगन्तव्यम् , कथमन्यथा चिरध्वस्तस्य यागानुभवादेः स्वर्गस्मरणादिजनकत्वमिति शङ्कते । तथापीति । एककालस्थ इति कोऽर्थः, किंस्त्राधिकरणकालस्थ इति, किंवा (तत्त)त्कार्यानुः गुणतत्तत्सहकारिसाकल्याधिकरणकालस्थ इतीत्याह । सेयमिति । न किञ्चिदिति । स्वकालस्थस्यैव सहकारिसाकल्ये कार्य: जनकताया अस्माभिरुपगमात् । तदेव वर्तमानत्वमेव(५) । कचित् सावधि कार्योत्पद्यमानतापूर्वकालमात्रावधि(६), कचिनिरवधि कार्योत्पद्यमानताकालस्थायि । ननु कार्याव्यवहितपूर्वकाले. असतोपि यागादेः कार्यजनकत्वे कदाचिदेव कार्य जायते ना. न्यदेखत्र कि नियामकमत आह । सावधित्वेऽपीति । व्यापारे. ति। व्यापारस्य फलप्रकर्षाप्रकर्षाभ्याम् फलानुगुणसहकारिला. (१) जातनष्टस्तदा-पाठः। (२) तदा कार्य-पुण० पु० पा० । (३)सहकारिसन्निधाना-पाठः । (१)( ) मूलेप्येतचिन्हातितो ग्रन्थः पुणतामकरसम्मतो न भवतीति सर्वत्र ज्ञेयम् । (५)वर्तमानत्वम्-पुण. पु. पा०।।
( ६ ) कार्योत्पद्यमानता, कार्याव्यवहितपूर्वकालः, तत्पूर्वकालमात्रावधि कार्याव्यवहितपूर्वकाले न वर्तते, ततः पूर्वमेव वर्तते इति तदर्थः ।