________________
षोऽधिकारः ।
१४३
शून्यागारदेवकुलसभापर्वतगृहादीनां मध्येऽन्यतमस्मिन् स्थाने समाध्यर्थे व्यवस्थानकक्षणगात्रसंकोचनकरणरूपत्वं लीनतारूपवाद्यतपसो लक्षणम् ।
आगमानुसारेणात्मनः कायद्वारेण वीरासनाद्यासनजन्यवाघासहनरूपत्वं कायक्लेशरूपवाह्यतपसो लक्षणम् ।'
यदि लीनताऽत्रान्तभूतां, तर्हि पृथग् न वक्तव्या, किन्तु वैराग्यार्थं पृथगुच्यते । यदि चास्यापेक्षया किश्चिद्भेदमुपादाय भिन्ना कथ्यते ततः सुतरां भिन्नप्रतिपादनमस्याः ।
अथवा कायोत्सर्गवीरासनोत्कटुकासनैकपार्श्वदण्डायतशयनातापनलुञ्चनादिकष्टरूपत्वं कायक्लेशस्य लक्षणम् । ईगलक्षणं यद्युच्यते, तर्हि लीनताया लक्षणं सर्वथा न वक्तव्यं, अनेनैव गतार्थत्वात् ।
अस्मात् पद्विधाद् बाह्यतपसः संगत्यागशरीरलाघवेन्द्रियजयसंयमरक्षणकर्मनिर्जरादयो भवन्ति ।
•
तत्र निःसङ्गो नाम बाह्याभ्यन्तरोपापेषु निर्ममता । ततश्च मासकल्पविहारत्यायोग्यतावर्जनात् शरीरलाघवम्, ततश्चामणीतशरीरस्योन्मादानुद्रेकादिन्द्रियजयः, ततथ भक्तपानार्थं गच्छतथर्याजनितजन्तूपघाताभावात् संयमरक्षणं, ततख निःसङादिगुणयोगादनशनादितपो
१. तत्र समाधिर्नाम ज्ञानदर्शनचारित्रतपोवीर्यात्मकः पश्वधा, तेषां या वृद्धिस्तस्या इच्छा तदर्थमित्यर्थः ।