________________
जैनतत्त्वप्रदीपे-.
१२०
तथाहि - भूतवत्यनुकम्पादानं सरागसंयमादियोगः शान्तिः शौचमिति सद्यस्य कारणानि ।
सम्यक्त्वं तत्त्वार्थश्रद्धानलक्षणम् । तदपि केवलिश्रुतः सङ्घदेवानामवर्णवादनिषेधपूर्वक वर्णवादादिहेतुकम् । वर्णवादस्तु सद्भूतगुणोद्भावनं पूजापर्युपासनं, तएव हेतवो यस्य तद्धेतुकम् ।
हास्यवेदनीय हास्याकारेणानुभवनीयम् । रतिवेदनीयं रत्याकारेणानुभवनीयम् । पुरुषवेदनीयं पुरुषवेदरूपेणानुभवनीयम् ।
शुभायुर्मानुषदेवायुर्लक्षणमिति भाष्यकाराभिप्रायः । कर्मप्रकृतिग्रन्धानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते ।
शुभगोत्रमुच्चत्रं शुभनाम गतिजातिनामादीनां मध्या दुद्वर्तितव्यम् ।
सद्वेद्यादिकमष्टविधं पुण्यसंज्ञितं कथितम् । तथा चार्यलभ्यं पापं व्युदसनीयम् ।
यद्यपि कथिता पुण्यप्रकृतिः, तथापि प्रकारान्तरेण स्पष्टतया द्वाचत्वारिंशदुच्यन्ते
सद्वेद्यं तिर्यग्मनुष्यदेवापि मनुष्यदेवगती पञ्चेन्द्रि जातिः शरीराणि पश्च समचतुखसंस्थानं वज्रर्षभनाराचसंहननमङ्गोपाङ्गत्रयं प्रशस्तवर्णगन्धरसस्पर्शा मनुष्यदेवानुपूoय अगुरुलघुपघाते उच्छ्वास आत पोद्योतः प्रशस्त
S