SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १०४ जैनतत्त्वप्रदीपेधदुःखोत्पत्तिस्थानेषु विवसनं भवति तद्रूपत्वं तिर्यगा. युषो लक्षणम् । यस्योदये सति प्रायेण शारीरिकमानसिकमुखदुःखनिवन्धनमनुष्ये पुत्पत्तिः स्यात् तद्रूपत्वं मनुष्यायुपो लक्षणम् । यस्योदये सति प्रायेण सुखप्रचुरदेवेषु जन्म भवति तद्रूपत्वं देवायुपो लक्षणम् । ॥ निरूपिताऽऽयुष्कर्मप्रकृतिः ।। संप्रति नामकर्म निरूप्यते - तच नामकर्म व्यधिकशतविध, गति-जातिशरीरा.. जोपाङ्ग-वन्धन-संघातन संस्थान-संहनन स्पर्श-रस-गन्ध-चजानुपूर्वी-विहायोगति - पराघातो च्छ्वासातपोद्योतागु. रुलघु-तीर्थङ्करनिर्माणो-पघात-त्रसं-बादर-पर्याप्त प्रत्येकस्थिर-सुभ-शुभग-सुस्वरादेययशाकीर्ति-स्थावर-मूक्ष्मापर्याप्त-साधारणास्थिराशुभ-दुर्भगदुःस्वरानादेयाऽयशाकी- . तिभेदात् । तत्र गतिश्चतुर्धा, नरक-तिर्यग्-मनुष्य देवगतिभेदात् । जातिः पश्चधा, एकद्वित्रिचतुष्पञ्चेन्द्रियभेदात् । शरीरं पश्चधा, औदारिक वैक्रिया ऽऽहाराक-तेजस-. कार्मणभेदात् । बन्धनं पञ्चदशविधम् , औदारिकौदारिकवन्धनौ-दा- . . रिकतैजसवन्धनौ-दारिककार्मणवन्धन-वैक्रियवैक्रियवन्धन
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy