________________
जैनतत्वप्रदीपेप्रमत्तयोगात् प्राणातिपातरूपत्वं प्राणातिपातंक्रियाया लक्षणम् ।
अश्वादिचित्रकर्मक्रियादर्शनार्थ गमनरूपत्वं दाzिक्या: क्रियाया लक्षणम् ।
रागादिना जीवादीनां स्पृशतः पृच्छतो या क्रिया तत्करणरूपत्वं स्पर्शनप्रत्ययिकक्रियाया लक्षणम् ।
जीवादीनाश्रित्य या क्रिया तत्करणरूपत्वं प्रतीत्यक्रियाया लक्षणम् ।
हर्षवशदिश्वरथादिकं श्लाघयतो या क्रिया तत्करणरूपत्वं सामन्तोपनिपातिक्याः क्रियाया लक्षणम् । ___ स्वहस्तगृहीतजीवादिना जीवं मारयतो या क्रिया तत्करणरूपत्वं स्वाहस्तिक्याः क्रियाया लक्षणम् ।
यन्त्रादिना जीवाजीवादीन् निसृजतो या क्रिया तत्क: रणरूपत्वं नैसर्गिक्याः क्रियाया लक्षणम् । अथवा पापा. दानादिना प्रवृत्तिविशेषाभ्युपगमकरणरूपत्वम् ।
अन्याचरितपापानां प्रकाशनरूपत्वं विदारणक्रियाया लक्षणम् ।
आनयनं समुद्दिश्य खपरैः क्रियाकरणरूपत्वमानयनक्रियाया लक्षणम् ।
जिनोक्तकत्र्तव्यविधिषु प्रमादवशतोऽनादररूपत्वमनवकाङ्कक्रियाया लक्षणम् ।