________________
सप्तमोऽधिकारः ।
शङ्काद्यतिचार वियुक्तं प्रशमसंवेगनिर्वेद । नुकम्पास्तिक्त्याभिव्यक्तिलक्षणं विशुद्धसम्यग्दर्शनं प्राप्य सम्यग्दर्शनोपलम्भाव विशुद्धज्ञानं प्राप्य प्रमाणनयनिक्षेपाद्युपायैजीवाजीवानां तथा पञ्चानां भावानां स्वरूपं ज्ञात्वा तथाऽनादिमतां धर्मास्तिकायादिद्रव्याणामादिमतामिन्द्रधनुरादीनां
१६५
स्थित्युत्पत्तिव्ययानामनुग्रहोपघातकारणं ज्ञात्वा सांसारिकभावेभ्यो विरक्तः पश्चसंमितित्रिगुप्तियुक्तो दशलक्षण धर्मानुष्ठानात् फलदर्शनाच निर्वाणप्राप्तिप्रयत्नाभिवर्द्धितश्रद्धासंवेगो भावनाभिर्भावितात्माऽनुप्रेक्षाभिः स्थिरीकृतात्मा संवृतत्वादनभिष्वङ्गो निराश्रवत्वाद् विरक्तत्वाद् विगततृष्णत्वाच्च व्यपगताभिनवकर्मापचयः, परीपहजयाच्च वाह्याभ्यन्तरतपोऽनुष्ठानादनुभावतश्च सम्यग्दृष्टिविरतादीनां जिनपर्यन्तानां परिणामाध्यवसाय विशुद्धिस्थानान्तराणामसंख्येयगुणोत्कर्ष प्राप्तोऽपूर्व कर्म निर्जश्यन् सामायिकादीनां सूक्ष्मसंपेरायपर्यन्तानां संयमविशुद्धिस्थानानां पुलाकादिनिर्ग्रन्थानां पाळनविशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिप
घटमानोऽत्यन्तमहीणार्त्तरौद्रध्यानो धर्मध्यानविजया
दवाप्तसमाधिबलः पृथक्त्वैकत्ववितर्कशुक्लध्यानयोश्चान्यतरस्मिन् वर्त्तमानो नानाविधलब्धिविशेषान् प्राप्नोति । ततोऽस्य निस्तृष्णत्वात्तेष्वनभिष्वक्तस्य मोहक्षयपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निर्विशेषतो हीयते । ततश्च च्छद्मस्थवीतरागत्वं प्राप्तस्यान्तर्मुहूर्तेन ज्ञानदर्शनावरणान्त
·