________________
संख्यावाचकास्त्रिलिङ्गा डोरिनि-अदितोः नित्यमिति च द्वयमप्यनुवर्तते । नित्यमित्यनुवर्तनाद्वहुलमित्यस्यासम्बन्धः । दु+भ इत्यत्र पूर्वसूत्रस्य वैकल्पिकत्वेनाप्रवृत्तावनेन 'डो' इत्यादेशे डित्त्वाटुकारलोपे दो । एवं द्वितीयाबहुवचनेऽपि ।।
अोदियणहितविसुषु दोः ॥ ४ । ३ । २२ ॥ दुशब्दस्यौकारादेशो नित्यं स्यादिहि अण इहितो इसु प्रत्ययेषु ॥ श्रोदिति-नित्यमित्यनुवर्तते । इहिश्च अणश्च इहिंतोश्च इसुश्च इह्मणेहिंतविसवस्तेष्विति विग्रहः ।
__इहीहिंतविसूनां द्वादिभ्यः स्वरस्य । ४ । १।१५ ॥ दुप्रभृतिभ्यः संख्यावाचकेभ्यः परेपामेपामादिस्वरस्य लोपः स्यात् । दोहिं, दोहि ॥
इहीहिंतेति-प्रादेः लोप इति पदद्वयस्यानुवृत्तिः । इहिश्च इहितोश्च इसुश्च इहीहिंतर्विसवस्तेषामित्यर्थः । दु प्रभृतीनां संज्ञाभूतत्वे एतदप्रवृत्त्यर्थमुक्वं संख्यावाचकेभ्य इति । एवमन्यत्रापि बोध्यम् । दु+ इहि इत्यत्र 'भोदिसणेहितविसुपु दोः' इति सूत्रेण दुशब्दसम्बन्धिन उकारस्यौकारेऽनेन विभक्तरादिस्वरस्येकारस्य लोपे 'इणाणेहीसीसूनामिति' सूत्रेण ममागमेऽनुस्वारे दोहिं, ममागमाभावे दोहि ॥
संख्याया अणस्य रहः । ४ । ४ । ५॥ संख्यार्थकशब्दात्परस्याणप्रत्ययस्य रह इत्यादेशः स्यात् । दोएहं ।। दोहितो ।। दोएहं ॥ दोसु ।।
संख्याया इति-दु+अण इत्यत्र दोरुकारस्यौकारेऽनेनाणत्य बहादेशे "तस्थानापन्नस्तद्धर्म लभते" इति न्यायाद् बहादेशस्याणत्वेन ममागमेऽनुस्वारे ॥ दु + इहिंतो इत्यत्रोकारस्यौकारे विभक्तरादिस्वरस्येकारस्य लोपे दोहितो । दोण्हं ।। पूर्ववत् दु+ इसु इत्यत्रोकारस्यौकारे विभक्तरादिस्वरस्य लोपे दोसु ॥
तेरिणा । ४ । ३ । ४२ ॥ तिशब्दात्परयोरदिन्प्रत्यययोर्षिण इत्यादेशो वा स्यात् ॥ तिषिण । तेरिति-अदितोरित्यस्यानुवृत्तिः । ति + अ इत्यत्रानेनाकारस्स 'रिण' इत्यादेशे तिरिण । एवं द्वितीयायामपि ॥
डयोः ।४।३।४०॥ तिशब्दात्परयोरदितो 'ईयो' इत्यादेशः स्यात् । तो ॥ तो ॥ तिहिं, तिहि ॥ तिराई ॥
तिहिंतो ।। तिण्हं ।। तिसु ॥ डयोरिति-तेः अदितोरितिद्वयोरनुवृत्तिः । ति + अ इत्यत्र 'रिण' इत्यादेशाभावेऽनेनाकारस्य 'डयो' इत्यादेशे डित्त्वाचेरिकारस्य लोपे यकारलोपे प्रकृतिभावे तो॥ एवं द्वितीयायामपि ॥ ति + इहि इत्यत्र इणाणेहीसोसूनामिति सूत्रेण विकल्पेन ममागमेऽनुस्वारे तिहि' ममागमाभावे तिहि ॥ ति + अण इत्यत्र,