________________
स्वरान्त नपुंसक लिङ्गाः तकारस्य यकारे लोपे पूर्वसवर्णदीपें प्रकृतिभावे वहूओ। वहू + इहिती इत्यत्र पूर्वसवर्णदीर्घ वहूहिंतो ।। बहू + स्स इत्यत्र स्सस्य 'अए' इत्यादेशे पूर्वसवर्णदीर्घ प्रकृतिभावे वहूए । वहणं । पूर्ववत् ॥ वहू + मि इत्यत्र विभक्ते 'रए' इत्यादेशे पूर्वसवर्णदीचे प्रकृतिभावे वहूए । वह + इसु इत्यत्र पूर्वसवर्णदीधै वहूसु ॥ वहू + उ 'इत्यत्रेदूद्भयां डिडू' इत्यनेनोकारस्य 'डु' इत्यादेशे डित्त्वादूकारलोपे भोवहु !, पक्षे पूर्वसवर्णदीचे भो वहू !। भो बहूओ!, ॥ भो वहू ! प्रथमाबहुवचनवत् ॥
॥ इति ॥
अथ स्वरान्तनपुंसकलिङ्गाः
-2000 ---
क्लीवान्मो वा । ४।३।३॥ नपुंसकात्परस्य प्रथमाया एकवचनस्य मादेशो वा स्यात् ॥ वणं । दाह । महं॥
क्लीबादिति-उत इत्यनुवर्तते । अकार उच्चारणार्थः । क्लीवो नपुंसकस्तदाह नपुंसकादिति । वण+उ इत्यत्रानेनोकारस्य मकारेऽनुस्खारे वणं । दहि + उ इत्यत्रानेन मकारेऽनुस्वारे च दहिं । महु + उ इत्यत्रानेन मकारेऽनुस्वारे महुँ । पक्षे पुंवत् ।।
णिती।४।३।४४॥ क्लीवात्परयोः प्रथमाद्वितीयावहुवचनयोः प्रत्येकं णि ति इत्येतावादेशौ पर्यायेण स्तः॥
णितीति-श्लीवात् अदितोः प्रत्येकमिति पदत्रयमनुवर्तते । णिश्च तिश्चेति द्वन्द्वः । वण+इत्यत्रानेन सूत्रेणाकारस्य 'णि' इत्यादेशे-वण+णि इति जाते
___णित्यो नः । ३ । २ । ३७ ॥ नाम्नः स्वरस्य दीर्घः स्यापिणत्योः परयोः । वणाणि । दहीणि । महूणि ॥ णित्योरिति-दीर्घ इत्यस्यानुवृत्तिः। णिश्च तिश्च णिती तयोणित्योः। वण + णि इत्यत्रानेन सूत्रेण णकारोत्तरवर्तिनोऽकारस्य दी वणाणि । दहि + अ इत्यत्र 'णिती' इति सूत्रेणाकारस्य ण्यादेशेऽनेनेकारस्य
दी वहीणि। एवं महु + अ इत्यत्र णितीत्यनेनाकारस्य ण्यादेशेऽनेन सूत्रेणोकारस्य दीघे महूणि । एवं सर्वत्र • बोम्यम् ।।
तेर्वा । ४।२।१६॥ . आदेशभूतस्य तिशब्दस्य ममागमो वा स्यात् । वणाई, वणाइ । दहीई, दहीइ । महुई,
. महूइ । एवं द्वितीयायामपि ॥