SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी एकवचनम् । १ ।२।६॥ . नाम्न एकवचनं स्यात् ।। एकवचनमिति-- अत्रैकत्वविवक्षाया अपेक्षा नास्ति सामान्यतो नानो विधानात् । अतएवाव्ययेभ्यां भावतिङन्तेभ्यश्चैकवचनं भवति ॥ ... बहुत्वे बहुवचनम् । १।२ । १०॥ . बहुत्वविवक्षायां बहुवचनं स्यात् । बहुत्वइति-एकत्वातिरिक्तमत्र बहुत्वं विवक्षितं तेन द्वित्वस्याप्येकातिरित्तत्वेन बहुत्वाक्षतिः । . प्रत्ययः परः।१।२।१॥ . . . . . ' अधिकारोंयमाद्वितीयाध्यायद्वितीयपादसमाप्तः । अधिकार इति-अधिकारत्वं च स्वदेशे वाक्यार्थबोधाजनकत्वे सति विधिशास्त्रेण सह वाक्या . ........ .. .' बोधजनकत्वमित्युक्तमेव प्रा तीयाध्यायस्य द्वितीयपा दिसमाप्तिपर्यन्तमनुगच्छति । नान्नः सुप।१।२।८॥ नामसंशकाच्छब्दस्वरूपात्सुष्प्रत्ययाः स्युः । अकारान्त पुल्लिंगो जिणशब्दः । .. : ... नान्न इति-पञ्चम्यन्तमिदमधिकृतपरशब्देनान्वेति विभक्तिरहितशब्दस्वरूपस्य नामेतिसंज्ञेत्युक्तमनुपदम् । सुबिति प्रथमान्तं विशेषणमधिकृतेन विशेष्यीभूतप्रत्ययशब्देन युज्यते । प्रत्यय इत्यस्य बहुवचनत्वेन विपरिणामः सुप्रत्ययानां बहुत्वात् । नामानि त्रिंविधानि पुल्लिङ्गकानि स्त्रीलिङ्गकानि नपुंसकलिङ्गकानि च तत्र पुल्लिङ्गस्य प्राधान्यात्प्रथमन्तान्येवोदाहियन्ते । तत्राप्यकारान्तत्वादिनाऽनेक विधत्वेप्यकारस्य स्वरेषु प्रथमोश्चरित- ... त्वेन प्रथममकारान्तनाम्न उदाहरणत्वेनोपन्यासः तदुक्तंमकारान्तः पुल्लिङ्गो जिणशब्दः। जिण रागद्वेषजेता जिन- . स्तीर्थकर इत्यर्थः । .. .. : ..:.. इतः पंसि।४।३१॥२॥::::: :; ... अकारान्तपुंल्लिंगानाम्नः प्रथमैकवचनस्योकारस्येकारो वा स्यात् । जिणे जिणो जिणा। .. . . . . . . . . . जि जिणे . .' इदिति-अतो नाम्न इत्यनुवर्तते, इत् + उतः पुंसि इति पदत्रयम् । तत्रोत इतिषष्ठ्यन्तम् । विशेषणे . तदन्तस्येति परिभाषयाऽकारान्तादिति लाभः पुंस्यनन्तरं वर्तमानांदिति शेषः । तथाच' पुल्लिंगो वर्तमानाद- । कारान्तनान्न इत्यर्थः । जिण+ उ इति!स्थितेऽनेनोकारस्यकारे वृद्धिरूपे परसवर्णे जिणे । इकाराभावे वृद्धिरूपे परसवर्णे जिणो । जिण +अ इति स्थितेऽदिदुतः सवर्ण इति दीर्घे जिणा। जिण 'म् इति स्थिते मोरित्यनुस्वारे जिणं । जिण + इ-इति स्थितेऽतः स्वर इत्योन परसवर्णे जिणें ॥
SR No.010021
Book TitleJain Siddhanta Kaumudi Purvardha
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherNagrajji Nahar Jaipur
Publication Year
Total Pages77
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy