________________
स्तोत्र - विभाग
६६७
3
किरणाकुलेऽपि ||२०|| मन्ये वरं हरि हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कचिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्र रश्मि, प्राच्येव दिग्जनयति स्फुरदंशु जालम् ॥२२॥ त्वामा मनन्ति मुनयः परमं पुमांस, मादित्य वर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं, नान्यः शिवः शिव पदस्य मुनीन्द्र ! पन्थाः ||२३|| त्वामव्ययं विभुमचिन्त्य - मसङ्खमाद्यं, ब्रह्माणमीश्वरमनन्तमनङ्ग केतुम् | योगीश्वरं विदितयोगमनेकमेकं ज्ञान स्वरूपममलं प्रवदन्ति सन्तः ||२४|| बुद्धस्त्वमेव विद्युधाचित बुद्धि बोधात् त्वं शङ्करोऽसि भुवनत्रय शंकरत्वात् । धाताऽसि धीर शिवमार्ग विधेर्विधानात् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ||२५|| तुभ्यं नमस्त्रिभुवनान्र्त्तिहराय नाथ ! तुभ्यं नमः क्षितितला मल भूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन ! भवोदधि शोषणाय ||२६|| को विस्मयोऽत्र यदि नाम गुणैरशेषै, स्त्वं संश्रितो निरवकाशतया सुनीश ! दोषै रुपात विषुधाश्रय जात गर्वैः, स्वप्नान्तरेऽपि न कदाचिद पीक्षितोऽसि ||२७|| उच्चैर शोक तरु संश्रितमुन्मयूख, माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्त तमो वितानं, बिम्बं वेरिव पयोधर पार्श्ववति ||२८|| सिंहासने मणि मयूख शिखा विचित्रे, विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशु लता वितानं, तुङ्गो दयात्रि शिरसीव सहस्ररश्मेः ॥२९॥ कुन्दावदात चलचामर चारु शोभं, विभ्राजते तव वपुः कलधौत कान्तम् । उद्यच्छशाङ्क शुचि निर्झर वारिधार, मुच्चैस्तट सुरगिरेरिव शान्त कौम्भम् ॥३०॥ छत्र त्र्यं तव विभाति शशाङ्ककान्त, मुच्चैः स्थितं स्थगित भानु कर प्रतापम् । मुक्ताफल प्रकर जाल विवृद्धशोभं, प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ||३१|| उन्निद्र हेम नव पङ्कज पुञ्जकान्ति, पर्युल्लसन्नख मयूख शिखाभिरामा । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः, पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशन विधौ न तथा परस्य । याहळू प्रभा दिन
ܕ