________________
६६६
जैन-रत्नसार
चेतो हरिष्यति सतां नलिनी दलेषु, मुक्ताफल द्युतिमुपैति ननूद बिन्दुः ॥ ८ ॥ आस्तां तव स्तवनमस्तसमस्त दोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्र किरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकाशभाञ्जि || ९ || नात्यद्भुतं भुवन भूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्म सम करोति ॥ १० ॥ दृष्ट्वा भवन्तमनिमेष विलोकनीयं नान्यत्र तोष मुपयाति जनस्य चक्षुः । पीत्वा पयः शशि कर द्युति दुग्ध सिन्धोः, क्षारं जलं जलनिधेरशितुं क इच्छेत् ॥ ११ ॥ यैः शान्तराग रुचिभिः परमाणुभिस्त्वं, निर्मापित स्त्रिभुवनैक ललाम भूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूप मस्ति ॥ १२॥ वक्त्रं क्व ते सुर नरोरग नेत्र हारि, निःशेष निज्जित जगत्रितयोपमानम् । बिम्बं कलङ्क मलिनं क निशाकरस्य, यद् वासरे भवति पाण्डुपलाश कल्पम् ||१३|| सम्पूर्ण मंडल शशाङ्क कलाकलाप, शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रि जगदीश्वर नाथमेकं, कस्तान्निवारयति सञ्चरतो यथेष्टम् ||१४|| चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि, नींतं मनागपि मनो न विकार मार्गम् । कल्पान्त काल मरुता चलिता चलेन, किं मन्दराद्रि शिखरं चलितं कदाचित् ॥१५॥ निर्धूमवर्ति रपवज्र्जित तैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटी करोषि । गम्यो न जातु मरुतां चलिता चलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ नास्तं कदाचिदुपयासि न राहु गम्यः, स्पष्टी करोषि सहसा युगपज्जगन्ति । नाम्भोधरोदर निरुद्ध महाप्रवाहः, सूर्याऽतिशायिमहिमाऽसि मुनीन्द्र लोके ॥ १७॥ नित्योदयं दलित मोह महान्धकारं, गम्यं न राहु वदनस्य न वारिदानम् । विभ्राजते तव मुखाब्जमनल्प कान्ति, विद्योतयज्जगदपूर्वशशाङ्क बिम्बम् ॥१८॥ किं शर्वरीषु शशिनाऽह्नि विवस्वता वा, युष्मन्मुखेन्दु दलितेषु तमस्सुनाथ । निष्पन्न शालि वन शालिनि जीव लोके, कार्य कियजलधरैर्जल भार नम्रः ॥१९॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेज स्फुरन्मणिषु याति यथा महत्वं नैवं तु काच शकले
"