________________
१६८
Jotain to Ya Yes to Y LLLLL
जैन - रत्नसार
फल पूजा
श्री मत्पुण्य फलैरिवाति मधुरैः कैश्चिच्च नाना रसैः ।
हृधैर्माद्यदलि प्रतान विरुतैरारब्ध गीतैरिव । भास्वत्कल्पतरूद्भवैः फल शतैः, भक्त्या यजे सॅफलीं । वाग्देवीं जिनचन्द्र वृन्द महितां, मुक्त्याङ्गनासंफलीं ॥८॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे फलं समर्पयामि । वस्त्र पूजा
श्री मतरल दुकूल पट्ट सुमहैश्चीनादि देशोद्भवैः,
काबीजैन वृहत्पटोल निचयैः, सक्षम कौशेयकैः । अन्यैः शिल्पि विनिर्मितैः शुभतमैः कैश्चिच्च नानाविधैः । वाग्देवीमभिपूजयामि रुचिरैर्वस्त्रैर्विचित्रैर्मुहुः ॥९॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे वस्त्रं समर्पयामि ।
आभरण पूजा
श्री मत्काञ्चन पञ्च रत्न कटकैः, केयूर हाराङ्गदैः ।
पट्टी नूपुर कर्णपूर मुकुटैः, ग्रैवेयकैः कुण्डलैः ॥ प्रालम्बाभरणांऽगुलीयकमणी, स्रब्झ खलाऽऽभूषणैः ।
वाणीं लोक विभूषणां प्रति दिनं, सम्पूजयाम्याहतीम् ॥१०॥ ॐ ह्रीं श्रीं समग्र सूत्राने आभरणं समर्पयामि ।
ग्यारहवीं पुष्पाञ्जलि ( सगधरा छन्द) गन्धाढ्यः स्वच्छतोयैर्मलतुष रहितैरक्षतैर्दिव्यगन्धैः,
श्रीखण्डैः सत्प्रसूनैरलि कुल कलितैः सन्निवेद्यैः स वस्त्रैः । धूपैः संधूपिताशैर्बर फल सहितैर्भासुरैः सत्प्रदीपैः ।
वाग्जैनीं पूजितालं दुरित विरहितं वाञ्छितं नः प्रदेयात् ॥११॥ ॐ ह्रीं श्रीं समग्र सूत्राग्रे पुष्पाञ्जलिं समर्पयामि ।
द्रव ॐ
***************************