________________
विधि - विभाग
१४७
रात्मत्राणासमर्थश्चेत्तर्हि अपवाद सेवनां जिनाज्ञां ज्ञात्वा राज्ञः अन्यस्यवा मिथ्यात्व नो नगराधिपस्य अनिवार्याज्ञा करणरूप आगार दर्शन गुणाय नमः । ५१ गणैर्निर्भर्त्स्य स्वधर्म प्रतिकूलकारित करणरूपागार दर्शन गुणाय नमः । ५२ बलवता चौरादिभिर्वानिगृह्यमाणः सन् आत्मरक्षणं कृत्वा आत्मशुद्धये प्रायश्चित्तं करिष्यामीति कृत्वा अशुद्ध क्रिया करणरूपागारदर्शन गुणाय नमः । ५३ मिथ्यादृष्टि धर्मद्वेषि क्षुद्रदेवता प्रभावादभिभूतः पूर्वोक्त प्रकारं स्मृत्वा अशुद्ध क्रिया करण रूपागार दर्शन गुणाय नमः | ५४ मातृ, पितृ, कलाचार्य, ज्ञाति वृद्धादिनामाज्ञाभंगे महान् दोष इति स्मृत्वा तदाज्ञा करणरूप गुरु निग्रहागार सेवन रूप दर्शन गुणाय नमः | ५५ पापोदयेन देशान्तरे भक्ष्याहाराभावेन मिथ्यात्वीनां ग्रामे उपायान्तरै शरीर यात्राया अनिर्वाहेन वा अभक्ष्य भक्षण कुमार्ग क्रिया करणरूप वृत्तिकान्तारागार सेवन रूपदर्शन गुणाय नमः | ५६ मूले पुष्टे वृक्षोऽपिसफलः पुष्टोऽपि भवति मूले नष्टे वृक्षो नश्यति तथाव्रतरूप वृक्ष मूलं सम्यक्त्व भावना भावित दर्शन गुणाय नमः ५७ नगरस्य गोपुरमिव धर्मनगरस्य सम्यक्त्वं गोपुरं यदि दर्शनशुद्धिरस्तितर्हिद्वारमुद्राहितमस्ति तद्भावेऽप्यहितमस्ति अतः सर्व धर्मस्य द्वारं सम्यक्त्वमिति भावना भावित दर्शन गुणाय नमः । ५८ यथा मूले पुष्टे प्रासादः पुष्टो भवति तथा सम्यक्त्व दृढ़े धर्मप्रासादो दृढो भवतीति प्रवर्तन रूप भावना दर्शन गुणाय नमः | ५९ सम्यक्त्वगुण रत्ननिधानं तेन विना आत्मनः सहजागुणाः स्थिरतां न भजन्तीति भावना दर्शन गुणाय नमः | ६० यथा कल्पवृक्षलता कामधेनु चिन्ता मण्याद्यनेकरत्नानामाधारः पृथ्वी तथा सम्यक्त्वं सर्व गुणानामाधारः इति भावना दर्शन गुणाय नमः । ६१ दधि दुग्ध घृतादि रसानां भाजन मिव श्रुतशील समसंवेग रूपाध्यात्म रस भाजनं सम्यक्त्वमिति भावना दर्शन गुणाय नमः | ६२ चेतना लक्षणो जीवपदार्थः सन्त्रैकालिकः इति स्वरूपोपयोगरूप सम्यग् स्थान दर्शन गुणाय नमः | ६३ आत्मा द्रव्यास्तिकाय नयेन नित्योऽनुभव वासना युक्तोऽमल अखण्ड निज गुण युक्त आत्मारामोऽस्तीति उपयोग रूपदर्शन गुणाय नमः । ६४ सर्वे जीवाः कुम्भकारवत् कर्मकर्तार इति श्रद्धारूप दर्शन गुणाय नमः ।
त्रि