________________
(३७)
सूर्यं तच्छायाप्रातिरितिचेन्न, गोलात् पूर्वदिक्षु स्थिते स्वौ पश्चिमदिगभिमुख- - छायोपपत्तेस्तत्प्राप्त्ययोगात् । सर्वदा तिर्यगेवसूर्यग्रहणसंप्रत्ययप्रसंगात् । मध्यदिने स्वस्योपरि तत्मतीतेश्च क्षितिगोलस्याधःस्थिते भानौ चन्द्रे च त. च्छायया ग्रहणमितिचेन्न, रानाविव तददर्शनप्रसगात् । ननुच न तयावरणरूपया भूम्यादिछायया ग्रहणमुपगम्यते तद्विद्भिर्यतोयं दोषः। किंतर्हि ? उपरागरूपया चंद्रादौ भूम्याद्युपरागस्य चन्द्रादिग्रहणव्यवहारविषयतयोगमात्। स्पटिकादौजपाकुसुमायुररागवत् तत्र तदुपपत्तेरिति कश्चित् सोऽपि न सत्यवाक्, तथा सति सर्वदा ग्रहणव्यवहारप्रसंग.त् भूगोलात्सर्वदिक्षु स्थितस्य चन्द्रादेस्तदुपरागोपपत्तेः । जपाकुसुमादेः समततः स्थितस्य स्फटिकादेस्न्दु. परागवत् । नहि चन्द्रादेः कस्यांचिदपि विशि कदाचिदव्यवस्थिति म भगोलस्य येन सर्वदा तदुपरागो न भवेत् तस्य ततोतिविप्रकर्षात् कदाचिन्न भवत्येव प्रत्यासत्त्यतिदेशकाल एव तदुपगमादितिचेत्, किमिदानीं सूर्यादेभ्रमणमार्गभेदोभ्युपगम्भते ? बाढमभ्युपगम्यत इतिचेन्न, कनानारा शिषु सूर्यादिग्रहणप्रतिराशिमार्गस्य नियमात् प्रत्यासन्नतमममार्गभ्रमण एव तद्धः टनात् अन्यथा सर्वदाग्रहणप्रसंग.स्य दुर्निवारस्वात् । प्रतिराशि पतिदिनं च तन्मार्गस्याप्रतिनियमात् समरानदिवसवृद्धिहान्यादिनियमाभावः कुतो विनिवार्येत ? भूगोलशक्तेरितिचेत्, उक्तमत्र समायामपि भूमौ तत एव समस्त्रादिनियमोस्त्विति । ततो न भूछायया चंद्रग्रहणं चन्द्रछायया वा सूर्यग्रहणं विचारसहं । राहुविमानोपरागोत्र चन्द्रादिग्रहणव्यवहार इति युक्तिमुत्पपश्यामः सकलबाधकविकलवात् । न हि राहुविमानानि सूर्यादि विमानेभ्योल्पानि श्रूयन्ते । अष्टचत्यारिंशद्योजनकषष्ठिभागविष्कभायामानि तत्रिगुणसातिरेकपरिधीनि चतुर्विशतियोजनकपष्ठिभागबाहुल्यानि सूर्यविमानानि, तथा षट्पचाशयोजनै कषष्ठिभागविष्कभायामानि तत्रिगुणसातिरेकपरि धीन्यष्टाविंशतियोजनैकषष्ठिभागमाहुरयानि चन्द्रविमानानि, तथैकयोननविष्कमायामानि सातिरेकयोजनत्रयारिधीन्यतृतीयधनुस्तु बाहुल्यानि राहुविमानानीति श्रुतेः । ततो न चन्द्रविस्य सूर्यविस्य वार्षग्रहोरागो