________________
( ३५ )
द्वियोजनमेकैकमण्डलान्तरं द्वयोजने अष्टाचत्वारिंशद्योजनकपष्ठिभागाश्चैकैकमुदयान्तरं । तत्र यदा त्रीणि शतसहस्राणि षोडश सहस्राणि सप्तशतानि घधिकानि परिधिपरिमाण विभ्रति तुलमेषप्रवेशदिन्गोचरे सर्वमध्यमण्डले मेरुं पंचचत्वारिंशद्योजनैरष्टाविंशत्या योजनैवषाष्ठभा. गश्च प्राप्य सूर्यः प्रकाशयति तदाहनि पंचदशमुहूर्ता भवति रात्रौ चेति समरानं सिद्धयति । विपुमति दिने द्वाविंशत्येकषष्ठिभागः सातिरेकाष्टसप्ततिद्विशतपंचसहस्रयोजन गरिमाणांकमुहूर्तगतिक्षेत्रोपपत्तेः । दक्षिणोत्तरे समप्रणिधीनां चं व्यवहितानामपि जनानां प्राच्यमादित्यप्रतीतिश्च लंकादिकुरुक्षेत्रांतरदेशस्थानामभिमुग्वमादित्यस्योदयात् । अष्टंचवारिंशयोजनकप'ष्ठभागत्वात् प्रमाणयोजनापेक्षया सातिरेकत्रिनवतीयोजनशतत्रयप्रमाणत्वादुन्सेधयोजनापेक्षया दूरोदयस्वाच्च स्वाभिमुखलंबीद्धप्रतिभाससिद्धः। द्वितीये महनि तथा प्रतिभासः कुतो न स्याचदविशेपादिति चेन्न, मण्डलान्तरे सूर्यस्योदयात् तदंतरस्योत्सवयोननापेक्षया द्वाविंशत्येकषष्ठिभागयोजनसहस्रप्रमाणत्वात्, उत्तरायणे तदुसरतः प्रतिभासनस्य. घटनात् । - सूर्यपरिणामदक्षिणोत्तरसमप्रणिधिभूभागादन्यप्रदेशे कुतः प्राची सिद्धिरिति चेत्, तदनंतरमंडले तथा सर्वाभिमुखमादित्यस्योदयादेवेति सर्वमन्वयं, क्षत्रान्तरेऽपि तथा व्यवहारांसद्धेः । तदेतेत प्राचीदर्शनाद्धरायां गोलाकारता साधनमप्रयोनकमुक्तं तत्र तत्र दर्पणाकारतायामपि प्राचीदर्शनोपपत्तेः । यदा तु सूर्यः सर्वाभ्यन्तरमण्डले चतुश्चत्वारिंशद्योजनसहल ष्टाभिश्च योजनशतैर्विस्तरमप्राप्य प्रकाशयति तदाहन्यष्टादशमुहूर्ता भवन्ति । चत्वारिंशषट्छताधिकनवनवतियोजनसहस्रविष्कभस्य त्रिगुणसातिरेकपरिधेस्त. मण्डलम्यैकानविंशद्योजनपष्ठिभागाधिककं पंचाशद्विशतोत्तरयोजनसहस्रपंचकमात्रमुहूर्तगतिक्षेत्रावसिद्धेः शेषाप्रकर्षपर्यततः प्राता दिवावृद्धिानिश्च रात्री सूर्यगतिभेदाभ्यंतरमंडलात् सिद्धा । यदा च सूर्यः सर्ववाह्यमण्डले पंचचत्वारिंशत्सहलैस्त्रिभिश्च शतै स्त्रिंशोजनानां मेरुमप्राप्य भासयति