________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
म. २ पा० ३ सू० ६०-६६] महावृत्तिसहितम्
आङथाजौ ॥२॥३॥६०॥ प्राजिः संग्रामः । श्रापर्वात् हूयते आजावभिधेयायां जिर्भवत्यच्च । श्राहयन्तेऽस्मिन्निति अाहवः। श्राजाविति किम् ? श्राहायः।
निपानमाहावः ।।२।३।६१॥ निपिबन्त्यस्मिन्निति निपानं जलस्थानम् । श्राहाव इति निपात्यते निपानं चेद्भवति । श्रापर्वस्य हयतेरधिकरणे घन निपात्यते । अाहूयन्तेऽस्मिन्निति अाहावः शकुनीनाम् । निपानमिति किम् ? अाह्वायः।
भावेऽगौ ॥२॥३॥६२।। अगिपूर्वस्य ह्वयते वे जिर्भवत्यच्च । ह्वानं हवः । अगाविति किम् ? अाह्वायो वर्तते । कर्तरीत्यस्यानुप्रवेशो मा भूदिति पुनर्भावग्रहणम् ।
हनश्च वधः।।२।३।६३॥ हन्तेरगिपूर्वस्य भावे वधादेशो भवत्यच्च । हननं वधः । चकारो घन समु. चयार्थः । घातो वर्तते ।
व्यधमदजपोऽगौ ।।२।३।६४॥ अगाविति वर्तमाने पुनरगिग्रहणं भावनिवृत्त्यर्थम् । तेन भावे अकर्तरीति द्वयं संबध्यते । अगिपूर्वभ्यो व्यध मद जप इत्येतेभ्यः अज् भवति । व्यधः। मदः । श्रगाविति किम् ? प्रव्याधः | उन्मादः। उपजापः।
स्वनहसोर्वा ।।२।३।६५|| अगाविति वर्तते । अगिपूर्वाभ्यां स्वन हस इत्येताभ्यामज भवति वा। स्वनः । स्वानः । हसः । हासः । अगावित्येव । प्रस्वानः । प्रहासः।
यमः सन्निव्युपे च ॥२॥३॥६६॥ यमेोः सम् नि वि उप इत्येतेषु वाक्षु अगौ च अज् भवति । वेति वर्तते । संयमः। संयामः। नियमः। नियामः । वियमः । वियामः। उपयमः। उपयामः। अगौयमः । यामः।
नौ गदनदपठस्वनः ॥२३॥६७॥ वेति वर्तते । निपूर्वेभ्यः गद नद पठ स्वन इत्येतेभ्यो वा अज भवति । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः। निस्वनः । निस्वानः।
क्वणो वोणायां च ॥२३॥६८॥ नौ वा अगाविति त्रयं वर्तते । कणे!ः निपूर्वादगिपूर्वाच्च अधीणायां वीणायां च विषये अज भवति । निकणः । निकाणः। अगो-कणः। काणः। वीणाग्रहणं गावपि प्रापणार्थम् । कल्याणप्रकणा वीणा। कल्याणप्रकाणा वीणा । एतेष्विति किमी प्रतिकाणः।
घनान्तर्घणप्रघणप्रघाणोद्धनापघनायोधनविघनद्र घणस्तम्बध्नस्तम्बधनपरिघोपनसंघोद्धनिघप्रमदसम्मदाः ॥२॥३॥६६॥ घनादयः शब्दा निपात्यन्ते। हन्तेरच् घनभावश्च मूर्तावभिधेयायां निपात्यते । मर्तिः काठिन्यम् । श्रभ्रधनः । दधिधनः। कर्मणि घनं दधीति भवति । अन्तःशब्दपर्वस्य हन्तेरधिकरणे घनभावोऽच्च निपात्यते देशाभिधाने अन्तर्हन्यतेऽस्मिन्निति अन्तर्घणो वाहीकेषु देशविशेषः । केचिन्नकारं पठन्ति । अन्तर्घातोऽन्यः । प्रपूर्वस्य हन्तः अचि पनि च धनभावो निपात्यते अगारैकदेशेऽमिधेय । प्रघणः । प्रघाणः । गृहद्वारदेश इत्यर्थः। प्रघातोऽन्यः। उत्पूर्वस्य हन्तेरधिकरणे घनभावोऽच निपात्यते अत्याधानं चेद्भवति । अत्याधीयतेऽस्मिन्नित्याधानम् । यत्र काष्ठानि लोहानि चाहन्यन्ते तदुच्यते । ऊर्च हन्यतेऽसिन्धनः। उद्घातोऽन्यः । अपघन हति निपात्यते अङ्ग चेद्भवति । अपघातोऽन्यः। अयोधनः ।
घणः स्तम्बघ्नः स्तम्बधनः परिघ इत्येते करणे कारके अजन्ता निपात्यन्ते। दुघणे केचिन्नकारं पठन्ति । स्तम्बटने कमात्रं निपात्यते । परिपूर्वस्य हन्तेघंभावश्च निपात्यः । उपपूर्वात् हन्तेराश्रयेऽभिधेये को निपात्यते । गुरूपनः । पर्वतोपनः । उपघातोऽन्यः । सम्पूर्वस्यु हन्तेर्घभावोऽच निपात्यते गणश्चेद्भवति । गणः प्राणिसमुदाय एव । पशूनां संघः । अन्यत्र संघातः । उत्पूर्वस्य हन्ते_देशोऽच निपात्यते प्रशंसायाम् । उद्धो मनुष्यः । उद्धाताऽन्यः। निघ इति निपात्यते निमित्तेऽर्थे । संमतादारोहपरिणाहाभ्यां मितंतुल्यन्निमित्तम् । निघाः शालयः। निघातोऽन्यः । प्रमदसंमदो हर्षे ऽभिधेये । अन्यत्र प्रमादः । सम्मादः।
For Private And Personal Use Only