________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ० : पा० ४ सू० १३७-१४] महावृत्तिसहितम् अङ्गिरसः। अत्रिशब्दात् “इतोऽनिनः" [३११११११] इति ढण् । अन्येभ्य ऋष्यण् । बहुष्वित्येव । भार्गवः। आङ्गिरसः । तेनैवेत्येव प्रियभार्गवाः । अस्त्रियामित्येव । भार्गव्यः स्त्रियः । वृद्ध इत्येव । भृगुर्देवता एषामिति भार्गवाः।
इओ बचःप्राच्यभरतेषु ॥१।४।१३७॥ ब्रह्मचो मृदो य इज, तस्य प्राच्यभरतेषु वृद्ध बहुधूमवति । प्रान्नागारिः। पानागारी । पन्नागाराः। एवं मान्थरेषणिः । मान्थरेषणी। मन्थरेषणाः । बहुच इति किम् १ पौष्पयः । प्राच्यभरतेष्विति किम् ? वालाकयः । हास्तिदासयः । ननु भरतः प्राच्य एव तेषां पृथग्रहणं किमर्थम् १ ज्ञापकार्थमन्यत्र प्राच्यग्रहणे भरतग्रहणं न भवतीति । तेन "प्राचामित्रोऽतौल्वलिभ्यः" [११३२] इति अत्र भरतानां युवत्यस्योम्न भवति । यौधिष्ठिरिः पिता यौधिष्ठियययः पुत्रः । ननु युधिष्ठिरादिभ्य इव नास्ति "कुर्वृष्यन्धकवृष्णे: [३।१११०३] इत्यणा भवितव्यम् । इह तहिं उम्न भवति श्रौद्दाल कः पिता प्रौद्दालकायनः पुत्रः। अत्र "प्राचामिजोऽतौल्वलिभ्यः” इति युक्त्यस्योप्प्रसज्येत । एतद्धि प्राच्यभरतगोत्रम् ।
न गोपवनादः ॥१।४।१३८॥ विदाद्यन्तर्गणो गोपवनादिः । गोपवन इत्येवमादेः परस्य वृद्धत्यस्यो न भवति । गोपवनस्यापत्यानि गौपवनाः । "यो,११३५] इत्यु प्राप्तः । गोपवन शिग्रबिन्दु भाजन अश्वावतान श्यामक श्यामाक श्यापर्ण एते गोपवनादयः। प्राग्धरितशब्दात् परत उभवति । हरिताः। किंदासाः । तौल्बलिप्रभृतयोऽत्र पठ्यन्त इति केचित् । तौल्वलयः । अनन्तरेण उम्प्राप्तः ।
वोपकादिभ्यः ।।१।४।१३६॥ उपक इत्येवमादिभ्य उत्तरस्य वृद्धत्यस्य वा बहुपून्भवति । उपकस्यापत्यानि उपकाः । श्रौपकायनाः । लमकाः । लामकायनाः । एतौ नडादी । भ्रष्टकाः । भ्राष्टकयः । कपिष्ठलाः। कापिष्ठलयः । कृष्णाजिनाः । कार्णाजिनयः । कृष्णासुन्दराः । कार्णसुन्दरयः । वेति व्यवस्थितविभाषा । तेनैषामद्वन्द्वे विकल्पः । परिशिष्टानां द्वन्द्व चाद्वन्द्वे च । सुपिष्ट मयूरकण कर्णक पर्णक पिङ्गलक जटिलक बधिरक एतेषां शिवादिषु पाठः। अनुलोमप्रतिलोम एतौ बाहादी । वटारक श्राडारक अभुक्तक [अबन्धक ] उद्दक सुपर्चक सुवर्चक सुवर्मक खरीजङ्घ शलाजच शलायल पतञ्जल कमन्दक कण्ठेरणि कुषीतक काशकृत्स्न निदाघ कलशीकष्ठ दामकण्ठ कृष्णपिङ्गल जतुक अविरग्ध कपिलक प्रतान अनभिहित ।
तिककितवादिभ्यो द्वन्द्वे ॥१४१४०॥ वेति नानुवर्तते । कतिकितव इत्येवमादिभ्यो द्वन्द्व वृद्धस्य बहुषून् भवति । तैकायनयश्च कैतवायनयश्च तिककितवाः। तिकादिलक्षणस्य फिज उप् । वाङखरयश्व भाण्डीरथयश्व इञ उपि ववरभण्डारथाः। पाटकयश्च नारकयश्च पटकनरकाः। वाकनखयश्च श्वागुदपरिणद्धयश्च वकनखश्वगुदपरिणद्धाः। औब्जयश्च काकुभाश्च ककुभशब्दः शिवादिषु विदादिषु वास्ति उन्जककुमाः। लायश्च शान्तमुखयश्च लङ्कशान्तमुखाः। उरसशब्दस्तिकादो। औरसायनयश्च लाङ्कटयश्च उरसलङ्कटाः। अग्निवेशशब्दो गर्गादौ । अग्निवेशाश्व दाशेरकयश्च अग्निवेशदाशेरकाः। औपकायनाश्च लामकायनाश्च फण उपि उपकलमकाः। भ्राष्टकयश्च कापिठलयश्च भ्रष्टककपिष्ठलाः। कार्णाजिनयश्च कार्ष्णसौन्दरयश्च कृष्णाजिनकृष्णसुन्दराः।
कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती ॥१॥४१४१॥ कौडिन्य श्रागस्त्य इत्येतयोवृद्धत्यस्य बहुषुब् भवति कुण्डिन अगस्ति इत्येतौ चादेशौ यथासङ्ख्यं भवतः। अगस्त्यशब्दात् ऋष्यण् । कुण्डमस्यास्तीति कुण्डिनी नाम काचित् गर्गादौ पठ्यते। कौण्डिन्य । कौण्डिन्यौः । कुण्डिनाः । श्रागस्त्यः । आगस्त्यौः । अगस्तयः । यद्यपि “यो:"[१।४।१३५] इति यत्र उप सिद्धस्तथापि कुण्डिनशब्दोऽकारान्त श्रादेशो विधीयमानो आधकः स्यादिति पुनर्वचनम् । अगस्तीनां छात्रा आगस्तीया इत्यत्र अगस्तिरादेशो भवति । प्राग्द्रवीविषये "वृद्धच्यनुपू' [३।१।७३] इति अनुपि सति “दोश्छः" [३।२।६०] इति छः सिद्धः । कौण्डिन्यशब्दा. च्छस्य बाधकः "शकलादिभ्यो वृद्धे' [३।२।८७] इति अण् भवति । कौण्डिनाश्छात्राः ।
For Private And Personal Use Only