________________
mom
महावृत्तिसहितम् । हेतुभय इति किम् । कुञ्चिकयैनं भाययति । वाचा विस्माययति । अकाप्यफलाऽयमारम्भः ॥
वञ्चने गृधिवञ्चः ॥ ६४ ॥ णेरिति वर्तते । कञ्चन विसंवादनम् । गृधि वञ्चि इत्येताभ्यां ण्यन्ताभ्यां वञ्चनेऽर्थे दो भवति । माणवकं गईयते । माणवकं वञ्चयते । विसंवादयतीत्यर्थः। वच्चन इति किम् । श्वानंगईयति।कातामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । गमयतीत्यर्थः॥
लियो ऽधाष्टय सम्मानने च ॥६५॥
रिति वर्तते। न धाष्ट्यंमधा शालीनीकरणम् । सम्माननं पूजनम् ।लिनातेर्लीयतेश्च एयन्ताधाष्ट्यसम्माननयोर्वचने च वर्तमानादो भवति । अधाष्ट्ये । श्येनो वर्तिकामुपलापयते। अभिभवतीत्यर्थः। सम्मानने । जटाभिरालापयते । हेता भा। आत्मानं पूजयतीत्यर्थः । वच्चने च कस्त्वामुल्लापयते । प्रलम्भयतीत्यर्थः । विभाषा लियोरिति व्यवस्थितविभाषाश्रयणादेषु त्रिषु नित्यमात्वम् । अधाष्टयादिष्विति किम् । बालकमुल्लापयति ॥
कृजो मिथ्यायोगेऽभ्यासे ॥ ६६
रिति वर्तते । अभ्यासो गुणनिका । करोतेर्ण्यन्तामिथ्याशब्दयोगे ऽभ्यासेऽर्थे दो भवति । पदं मिथ्या कारयते । स्तुतिं मिथ्या कारयते। सदोषं पुनःपुनरुच्चारयतात्यर्थः। कृत इति किम् । पदं मिथ्या वाचयति । मिथ्या योग इति किम् । स्तोत्रं सुष्टु कारयति । अभ्यास इति किम् । सकृत्पदं मिथ्या कारयति । एकवारमुच्चारयती
|त्यर्थः॥