________________
manna
m anmamtapmanamaanaa
maanu
७४
महावृत्तिसहितम् । गन्धनादिना उत्कुरुते । अयमिममुच्चिकीर्षते । उभयविशेषेण ज्योतिरुद्गतावाङः । आक्रमते । अाचिकंसते । स्नोर्दार्थात् क्रम इतीप्रतिषेधः । कारकविशेषेण । ज्ञोऽपन्हवे धेः । सर्पिषो जानीते । सर्पिषो जिज्ञासते । इह जुगुप्सते मीमांसत इति गुपप्रकृतेरवयवस्यानुदात्तत्करणं सन्नन्तसमुदायस्य विशेषकमिति दः सिडः । यद्येवं गोपायत्यादावपि स्यात् । कर्तव्योऽत्र यत्नः। पूर्ववदिति किम् । शिशत्सति । मुमूर्षति । अत्र दनिमित्तं नास्ति ॥
आम्वत् तत्कृजः ॥ ५८ ॥
आम्ग्रहणेन यस्मादाम् विहितस्तस्य ग्रहणम् । श्राम इव आम्बत् । तस्य कृञ् तत्कृञ् । यस्मादाम् तस्येव धोस्तत्कृञो दो वेदितव्यः। ईहाञ्चक्रे । ईक्षाञ्चक्रे । लिटि परतः सरोरिजादेरित्याम् । अाम इति परस्योप् । लस्य कृत्त्वान्मृत्वे सति स्वादिविधिः। सुपो झेरिति तस्योप।लिड्वत् कृत्रीत्यनुप्रयोगस्य करोतेरनेन दः। विधिनियमश्चात्रेष्यते। पूर्ववदिति वर्तते । अकाप्य फले पूर्ववद्दो भवतीति विधिः । क प्ये फले आम्वदेव दो भवति । तेन दाईस्यैवामन्तस्य प्रयोगे दो भवतीति नियमादिह न भवति । उदुम्भाञ्चकार । तद्ग्रहणं किम् । आमन्तानुप्रयोगस्य ग्रहणं यथा स्यादिह मा भूत् । ईहते । करोतीति कृञ्ग्रहणं किमर्थम् । करोतेरेव यथा स्यादिह मा भूत्। ईक्षामास। ईक्षाम्बभूव । इह कृग्रहणादन्यनिरासार्थाज्ज्ञायते लिड्वत्कृत्रीत्यत्र प्रत्याहारग्रहणं कृभ्वस्तियोग इत्यत आरभ्य कृत्रो द्वितीयेति प्रकारेण ॥
युजो ऽयज्ञपात्रे गेः ॥ ५ ॥