________________
Paumaam
anawaran
महावृत्तिसहितम् । यते । यस्य ड्याञ्च । दाक्षिः। चौलिः । दैत्यः । कौमारः। अस्य च्ची । शुक्लीभवति । मालीभवति । उदित् । स्ताः चुना श्शुः । पृनाः । अभाव्य इति किम् । भाव्यन्ते उत्पाद्यन्ते त्यादेशटिकिनमितस्ते स्वस्य ग्राहका न भवन्ति । अस्त्यात्। त्यदादेरः।दित् । लविता।कित् ।बभूव । मित् । सृजिदृशोरम् । अतपर इति किम् । भिसोऽत ऐ। वृक्षः। खटाभिरित्यत्र न भवति । तकार इद्यस्य सोऽयं तिदिति सिडे परग्रहणमुभयार्थम् । तः परोऽस्मात्तपरस्तादपि परस्तपरः। इदमेव ज्ञापकं सविधा केति योगविभागोऽस्ति । प्रादैगैप् । अदङेपतपरत्वादैजेडादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः। अभाव्योऽतपर इति पृथग्भावान्न चारणं किम् ।कचिद्भा व्योऽपि स्वं गृह्णातीति ज्ञापनार्थम् । अमूभ्याम् । संज्ञा सूत्रमिदं न परिभाषा । साहि नियमार्थी भवति । न चाणुदितां स्वस्यास्वस्य च ग्रहणं प्राप्तं येन स्वस्यैवेति नियमः स्यात् ॥
अन्त्येनेतादिः ॥ १३ ॥ अत्येनेत्संज्ञकेन गृह्यमाण आदिस्तन्मध्यपतितानां ग्राहको भवत्यात्मना सह ॥ आद्यन्ता सम्बन्धिशब्दा । अतः सामर्थ्यादाद्यन्तव्यतीरेकेण तन्मध्यपाति वस्तु प्रत्येकसंज्ञित्वेनाक्षिप्तम् । अइ उ इत्येतेषां प्रत्येकमणिति संज्ञा। एवमक अच अट् इत्येवमादयः । अन्त्येनेति किम् । सुडित्यत्र आदिना टा इत्येतस्य टकारेण ग्रहणं मा भूत्। अन्त्येनेतीदमेव ज्ञापकं सहाथै गम्यमानेऽपि भा भवति ॥
असंख्यं झि ॥ १४ ॥ संख्या एकत्वादिका सा यस्य न विद्यते तदसंख्यं
-
-