SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॥ श्रोः॥ जैनेन्द्रव्याकरणस्य प्रस्तावः । भास्कराचार्यकृतलीलावत्यामन्ते "अधौ व्याकरणानि षट् च भिषजां व्याचकृताः संहिताः षट् तर्कान् गणितानि पञ्च चतुरो वेदानधीते स्म यः। रत्नानां त्रितयं वयं च बुबुधे मीमांसयोरन्तरं सद्ब्रह्मकमगाधवोधमहिमा सोऽस्थाः कविर्भास्करः॥" (१) इति पद्यं दृष्ट्वा कान्यौ व्याकरणानीति विवेचयन् । कविकल्पद्रुमाभिधे धातुपाठे बोपदेवेनोक्तम् "इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा जयन्त्यादिशाब्दिकाः॥" इदं पद्यमवलोक्य एतान्येवाष्टौ व्याकरणानीति निश्चितवान् । ततो जैनेन्द्रव्याकरणमन्विष्यन् चिरेण वाराणस्यामेकस्य जैनस्य पुस्तकसंग्रहे देवनन्दिमुनिकृतस्य जैनेन्द्रव्याकरणस्याभयनन्दिमुनिकृतमहावृत्तिसहितस्यैकं पुस्तकमुपलब्धवान् किन्विदं पुस्तकं प्राचीनं स्थलविशेषेषु (१) कलिकातास्थस्कूलबुक्सोसाइटीसमाजद्वारा मुद्रिते पुस्तके द्रष्टव्यम् । प्रक्षिप्तमिदं पद्यं न तु भास्कराचार्येण कृतमिति केचन मन्यन्ते । तथात्वे ऽपि केनचिबहुशेन रचितमिति नास्त्यत्र शङ्कावकाशः । -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy