________________
damansamuhikiwand
supro
MMADHANName
जैनेन्द्रव्याकरणम् । २८७
परोक्ष लिट् ॥ १५ ॥ भुने अनद्यतने इति च वर्तते । परावृत्तोऽक्षेभ्यः परोक्षः इन्द्रियागोचर इत्यर्थः । परोक्षशब्दस्य चेदमेव निपातनम् । भूतानद्यतनपरोक्षध्वर्थे लिट् भवति । यद्यपि साध्वर्थः साध्यत्वेनानुमेयत्वेन वा परोक्षस्तथापि यत्राश्रयद्वारेण प्रत्यक्षाभिमानो नास्ति लोकस्य स परोक्ष उक्तः। पपाच । चकार । प्रात्मनानुष्टिता हि क्रिया सर्वस्य प्रत्यात्म प्रत्यक्षेति सुप्तमत्तमस्मदः प्रयोगः । मुप्तोऽहं किल विललाप मत्तोऽहं किल जघान । अत्यन्तापहवे लिट् वक्तव्यः । नाहं कलिङ्गं जगाम । कलिगगमनस्य प्रत्यक्षत्वाल्डिप्राप्तः ॥
हशवतार्लङ् च ॥ ६ ॥ ह शश्वदित्येतयोवाचार्लङ् भवति लिट् च भूतानचतनपरोक्षे । इति हाकरोत् । इति ह चकार । शश्वदकरोत् । शश्वचकार ।।
प्रश्ने चान्तर्युगे ॥ ६ ॥ प्रष्टव्य इति प्रश्नः। पच्चवर्ष युगम् । युगाभ्यन्तरे प्रश्ने भूतानद्यतने परोक्ष ललिटी भवतः। चकार: किमर्थः पूर्वपूत्रे चानुकृपस्य लिटोऽनुकर्षणार्थः । किमगच्छस्त्वं पाटलिपुत्रम् । अदादसौ दानम् । दावा दानम् । प्रश्न इति किम् । देवदत्तो जगाम । अन्तयुगइति किम् । अहं त्वां पृच्छामि । जघान कंसं किल बासुदेवः॥