________________
-
जैनेन्द्रव्याकरणम् । भवता । कर्मणि क्रियते कटः। भुज्यते ओदनः। ज्ञकारस्य दीत्वे प्राप्ते रिद्यग्लिश इति रिः । कर्मसामान्यात् आत्मकर्मण्यपि यग भवति । क्रियते कटः स्वयमेव । भिद्यते कुशृलः स्वयमेव । कथं भिद्यते कुशलेन स्वयमेवेत्यत्र कर्तरि ता । अत्राकर्मकत्वविवक्षा। तेन भावे लकार। लान्तस्थाभयविवक्षा । व्यक्तस्वार्थ स्वकर्माविवव । भेत्तव्यं कुशुलेन स्वयमेव । भिन्नं कुशलेन स्वयमेव । इषझेदं कुशुलेन स्वयमेव ॥
कतरि शप ॥ ६४ ॥ कर्तृवाचिनि गे परत्तः धाः शम्भवति । जयति । भवति । तरति । शकारः मिङ्गिनाति विशेषणार्थः । पकारः गोपिदिति विशेषणार्थः॥
दिवादेः श्यः ॥६५॥ दिव इत्येवमादिभ्यः श्यो भवति गे परतः। दाव्यति। सीव्यति । हल्यभकुच्छु र इति उङो दीत्वम् । इमे श्याय शोऽपवादः॥ वा भ्राशनाशभ्रमुक्रमुत्रभित्रुटिलषः ॥६६॥
भ्राश भ्लाश भ्रम् क्रम् त्रसि त्रुटि लष इत्येतेभ्यो धुभ्यो वा श्यो भवति । उभयत्र विभाषेयम् । भ्राशते भ्राश्यते। भ्लाशते । भ्लाश्यते । भ्रमति । भ्रम्यति । श्ये भावादिकस्याशमादित्वाहीत्वं नास्ति देवादिकस्य दीत्वम् । भ्रमति । भ्राम्यति । क्रमति । क्राम्यति । क्रमो मे इति दीत्वम् । त्रसति। त्रस्यतित्रुटति।द्यन्तिालषतिालष्यति। क्लमिग्रहणं न कर्तव्यम् । दिवादिपाठात् श्ये सति समि
Noun