________________
meenawarenes
Human
hinnamarpan
ORDSONusdomosamasummonamunaarasmas
जैनेन्द्रव्याकरणम् ।
स्तोश्च जिश्च ॥ ५ ॥ स्तोश्च नमश्च कर्मण्यात्मनि जिर्यग च न भवतः। प्रास्तोष्ट गैरः स्वयमेव । प्रस्तुते गाः स्वयमेव । लडि प्रास्तुत गौः स्वयमेव । जिप्रतिषेधार्थ नमो ऽनुकर्षण।। यक् तु पूर्वेणैव प्रतिषिडः। अनंस्त दण्डः स्वयमेव । जियको प्रतिषेधे णिश्रन्थिग्रथिनां दविधा धीनां चोपसंख्यानं कर्तव्यम् । णिरिति हेतुमरिणचोऽन्यस्य वा विशे. षेण ग्रहणम् । अचीकरत कटः स्वयमेव । कारयते कटः स्वयमेव । अश्रन्थिष्ट मेखला स्वयमेव । श्रथ्नीते माला स्वयमेवा अग्रथिनष्ट मेखला स्वयमेव । अथ्नीते मेखला स्वयमेव । श्रवोचत वाक् स्वयमेव । ब्रते वाक् स्वयमेव । दविधा धीनी व्यकृषत सैंधवाः स्वयमेव । व्यकुर्वत सैन्धवाः स्वयमेव । विकुर्वते सैन्धवाः स्वयमेव । त्रियको प्रतिषेधे कथं काश्रयाः कनादयः । नमः शप्त इत्यतस्तुशब्दोऽनुवर्तते तेन काश्रयविकरणसिद्धिः। अत इदमपि सिद्धम् । आरोहन्ति हस्तिनं हस्तिपकाः। प्रारोहयते हस्ती स्वयमेव । सिञ्चन्ति हस्तिनं हस्तिपका। सेचयते हस्ती स्वयमेव । डाविति दविधिः यदान्यत्कर्मप्रति स्वातन्त्र्येष विवक्षा तदा काश्रया विषयो भवन्ति । आरोहयमाणा हस्ती स्थलमारोहति मनुष्यान् । यथा भिद्यमानः कुशल: पात्राणि भिनत्ति । इह कस्साहो न भवति । सरति वनगुल्मस्य कोकिलः । स्मरयत्येनं वनगुल्मः स्वयमेव । कर्मस्थभावकानां कर्मस्थक्रियाणां चात्मकर्मविवचाकर्तृस्वभावकं वाध्या नमिति दो न भवति ॥